________________ क्वचिद् भवति सदनुष्ठानलक्षणे पथ्ये भृशतरमरोचकः, तदेवमेवंविधैविकारस्तावतीं कोटिमध्यारूढोऽपि खल्वेष जीवोऽपथ्यसेवनासक्तो बाध्यत इति / जीवस्य गुरोरुपालंभः __ ततस्तदनन्तरं यदवाचि यदुत ‘स वनीपकस्तथा वि(विधैर्वि)कारैरुपद्रुतो दृष्टस्तद्दयया, ततोऽ. पथ्यभोजितामधिकृत्योपालब्धस्तया, तेनोक्तं "नाहमभिलाषातिरेकेण स्वयमेतत्परिहतुमुत्सहे, ततोऽ. मुतोऽपथ्यसेवनाद्वारणीयोऽहं भवत्या" / प्रतिपनं तया / ततस्तद्वचनकरणेन जातस्तस्य मनाग विशेषः, केवलं सा यदाऽभ्यर्णे तदैवासौ तदपथ्यं परिहरति, नान्यदा, सा चानेकसत्त्वप्रतिजागरणाकुलेति न सर्वदा तत्सन्निधौ भवति / ततोऽसौ मुत्कलोऽपथ्यमासेवमानः पुनरपि विकारैः पीडयर एव' / तदेतदप्यत्र जीवव्यतिकरे सदृशं वर्त्तते, केवलं गुरोर्या जीवस्योपरि दया सैव प्राधान्यात्पार्थक्येन की विवक्षिता / ततश्चायं परमार्थः-ते गुरवो दयापरीतचित्ताः प्रमादिनमेनं जीवमुपलभ्यानेकपीडा पर्याकलतया क्रन्दन्तमेवमपालभन्ते, यथा "भोः कथितमेवेदं प्रागेव भवतो, न दुर्लभाः खल विषयासक्तचित्तैर्मनःसन्तापाः, न दूरवर्त्तिन्यो धनार्जनरक्षणप्रवणानां नाना व्यापदः, तथापि भवतस्तत्रै गाढतरं प्रतिबन्धः, यत्पुनरेतदशेषक्लेशराशिमहाऽजीर्णविरेककारितया परमस्वास्थ्यकारणं ज्ञानदर्शनचारित्रत्रयं तदनादरेणावलोकयसि त्वं, तदत्र किं कुर्मों वयं ? यदि किश्चिद् बमस्ततो भवानाकुलीभवति, ततो दृष्टवृत्तान्ता वयं भवन्तमनेकोपद्रवैरुपद्रयमानं पश्यन्तोऽपि तूष्णीमास्महे, न पुनराकुलतामयाद भवन्तममार्ग प्रस्थितमपि वारयामः, आदरवतामेव पुंसा विरुद्धकर्माणि परिहरतां ज्ञानदर्शनदेशचारित्राण्यनुतिष्ठतां तानि विकारनिवारणायालं, नानादरवतां, यदा चास्माकं पश्यतामाप त्वं रागादिरोगैरभिभूयसे तदा भवद्गुरव इति कृत्वा वयमप्युपालम्भभाजनं लोके भविष्याम" इति / सोऽयं तदयाविहितस्तदुपालम्भ इत्युच्यते / / प्रार्थना गुरोरुद्यमञ्च ततोऽयं जीवो गुरूनभिदधीत-भगवन् ! अनादिभवाभ्यस्ततया मां मोहयन्तीमे तृष्णालौल्यादयो भावाः, ततस्तद्वशगोऽहं न सदाऽऽरम्भपरिग्रहं जाननपि तदोषविपाकं मोक्तुं शक्नोमि / ततो भगवद्भिर्नाहमुपेक्षणीयो, निवारणीयो यनतोऽसत्प्रवृत्तिं कुर्वाणः, कदाचिद्भवन्महात्म्येनैव मे स्तोकस्तोकां दोषविरतिं कुर्वतः परिणतिविशेषेण सर्वदोषत्यागेऽपि शक्तिः संपत्स्यत इति / ततः प्रतिपद्यन्ते तद्वचनं गुरवः' चादयन्ति प्रमाद्यन्तं क्वचिदवसरे संपद्यते प्राक्प्रवृत्तपीडोपशमः तद्वचनकरणेन, प्रवत्तन्ते ज्ञानादयो गुणास्तत्प्रसादेन सोऽयं तद्दयावचनकरणेन मनागारोग्यलक्षणः संजातो विशेष इत्युच्यते / केवलमयं जीवे विशिष्टपरिमाणविकलतया यदैव ते चोदयन्ति तदैव स्वहितमनुचेष्टते, तच्चोदनाऽभावे पुनः शिथिलयति सत्कर्त्तव्यं, प्रवर्तते निर्भरं भूयोऽसदारम्भपरिग्रहकरणे ततश्चोल्लासयन्ति रागादयो, जनयन्ति मनःशरीरविविधबाधाः, ततस्तदवस्थैव विह्वलतेति, तेषां तु भगवतां गुरूणां यथाऽयं प्रस्तुतजीवः सच्चोदनादानद्वारेण परिपाल्यस्तथा बहवोऽन्येऽपि तथाविधा विद्यन्ते / ततश्च समस्तानुग्रहप्रवणास्ते कदाचिदेव विवक्षितजीवचोदनामाचरन्ति, शेषकालं तु मुत्कलतया स्वाहितमनुतिष्ठन्तमेनं न कश्चिद्वारयति, ततश्चायमनन्तरोक्तोऽनर्थः संपद्यत इति / सोऽयं तद्दयासभिधानविरहादपथ्यसेवनेन पुना रोगविकाराविर्भाव इत्यभिधीयते /