________________ प्रलो. 253-279 ] वैराग्यरतिः। चित्रं न तद् गुरुमनोनवनीतरूपं, वह्नावपि द्रवति यत् प्रतिकूलभावे / तेन द्रुतेन पुनरेष यदेति शान्ति, लोकोत्तरं किमपि चित्रमिदं चरित्रम् // 277 // जिज्ञासुतारवती सुरुचिप्रवाला, ज्ञानादिपुष्पकलिता समताफलाढ्या / हित्वा करीरवनतुल्यमुपायमन्यं, सेव्या सदा गुरुकृपात्रिदशद्रुवल्लिः // 278 // गुरुकृतगरिमप्रथापवित्रं, द्रमकचरित्रमिदं निशम्य सम्यग् / य इह वितनुते तदंहिसेवां, त्यजति न तं गुणरागिणी यशःश्रीः // 279 // // इति वैराग्यरतौ प्रथमः सर्गः //