________________ महोपाध्यायश्रीयशोविजयगणिविरचिता प्रथमः सर्गः सुप्तोत्थितश्च तस्मिन् पचेलिमं फलमपूर्वमालोक्य / आस्वाद्य गतः स्थाने प्रस्तुतकार्य पुनश्चक्रे // 253 // . . भुञ्जानस्याऽपि महाकल्याणकमथ समप्रविधियुक्तम् / प्रकुपित इव वेतालः पुनरुन्मादोऽतुदद् गात्रम् // 25 // जाता ज्वरज़र्जरता मूर्छाकूपे च मानसं मग्नम् / दृष्ट्वेदृशं तमासीचिन्ताभाग् धर्मबोधकरः // 255 // पृष्टं रोगनिदानं तेनोपेक्षागतं न तत् प्रोक्तम् | विषफलभुक्तिर्मुरुणा ज्ञाता मतिनाडिकागत्या // 256 // उक्तं च यत्स ! गारवविषफलमुक्तेरसौ विकारभरः / चारित्रसदन्नभुजामप्ययमतिदुःखकृद् भणितः // 25 // तथा चार्षम्-- . निकिंचणे भिक्खु सुलूहजीवी जे गारवं होइ सिलोयगामी। आजीवमेयं तु अबुज्झमाणे पुणो पुणो विप्परियासुवेइं // [सूत्रकृताङ्गअध्ययन 13 गाथा 12] एतत्प्रतिक्रियां तद् गुणवैतृष्ण्याख्यपरमवैराग्यम् / सेवस्व येन न कदाप्येष विकारः समुद्भवति // 258 // आद्यं खलु वैराग्यं विषयत्यागाय विषयवैतृष्ण्यम् / ज्ञानादिविकारहरं गुणवैतृष्ण्यं द्वितीयं तु // 259 / / शिक्षामेतां लब्ध्वा जातः स्तिमितोदधेरसौ तुल्यः / अविकृतनिजगुणपात्रं परमान्नरसादथ स्वस्थः // 26 // एवं यो यो दोषो यदा यदा बाधतेऽस्य सूक्ष्मोऽपि / तत्तत्प्रतिक्रियायां प्रक्रमते धर्मबोधकरः // 261 // अथ कृतसमस्तदोषप्रतिकारः परिणतोरुगुरुशिक्षः / वचनक्षमादिसिद्धरधिगतधर्मक्षमादिरतिः // 262 // वचनक्रियाप्रकर्षाश्रयादसङ्गक्रियासु लब्धरसः / कर्ममलव्ययहेतोः शुक्लः शुक्लाभिजात्यश्च // 263 // . . खेदोद्वेग-भ्रान्ति-क्षेपोत्थाना-ऽन्यमुद्रुजासङ्गैः / मुक्तश्च पृथचित्तैरष्टभिरष्टाङ्गयोगधरः // 264 / / मद-मदन-मोह-मत्सर-रोष-विषादैरधर्षितः सततम् / तुल्याऽरण्य-कुलाकुल-विविक्तजन-शत्रु-मित्रगणः // 265 // दृष्टिं स्थिरां च कान्तां प्रभां परां च प्रसारयन् धर्मे / धर्मध्यानाभिरतः शुक्लध्यानकतानमनाः // 266 // श्लिष्टं विधाय चित्तं सुलीनमपि संयमे वितन्वंस्तत् / आत्मारामः शून्यं परभावविजृम्भितं पश्यन् // 267 / / उल्लसितसहजवीर्यः परिशुद्धसमाधिदृष्टपरमार्थः / जीवन्मुक्तः शर्माऽनुबभूव भवातिगं किश्चित् // 268 // इत्थं द्रमकोऽपि महाराज इवाकारि धर्मबोधकरैः / गुरुभिस्तन्माहात्म्यं वर्णयितुं नालमिन्द्रोऽपि // 269 // अनुभवसिद्धं चेदं साक्षाद् द्रमकोपमोऽप्यहं सदयैः / गुरुभिः प्रवेशितो यज्जिनसमये शर्म किमपि लभे // 270 // विकलानुष्ठानादपि शुद्धानुष्ठानतीवभावयुजः / अनुषङ्गजबोधिफलादलाघवं भावयामि भृशम् // 271 // विमलालोकात् तीर्थोदकाच्च यद्रोगतानवं भवति / सोऽयं गुरुप्रसादः परमान्नलवस्य लाभश्च // 272 // एवं येषां गुरवो भक्तिप्रह्वा भृशं प्रसीदन्ति / भव्या भवन्ति पुरुषास्ते सर्वश्रेयसां पात्रम् // 273 // किं तच्चित्रं गुरुरिह महाशास्त्रसन्दर्भवेदी, न स्वायासं गणयति रतो नित्यमन्यार्थसिद्धौ ? / अम्भोवाहो भ्रमति जलधौ कामति व्योम विद्युत् , तापव्यापं वपुषि वहते तत्र कः स्वार्थलोभः ? // 274 // जडमपि कृतिनं गुरुर्विधत्ते, कुटिलमपि प्रगुणीकरोति सद्यः / / धवलयति धरातलं हिमांशुः, कुमुदवनस्य भिनत्ति मङ्घ मुद्राम् // 275 // सूतेऽनम्बुधरोऽपि चन्द्रकिरणैरम्भांसि चन्द्रोपलस्तद्रूपं पिचुमन्दवृन्दमपि च स्याच्चान्दनैः सौरभैः / स्पर्शात् सिद्धरसस्य किं भवति नो लोहं च लोहोत्तमम् ?, प्राप्य श्रीगुरुपादपङ्कजकृपां मूर्योऽपि सूरिभवेत् / / 276 / /