________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [ पञ्चमः सर्गः दृष्ट्या प्रन्थिस्थपाषाणमानीतो राजपूरुषैः / आलजालमिदं चक्रे हन्तव्योऽयं मयाऽधुना // 235 // विमलः प्राह मा कार्षीरित्थमस्यानघे ! व्यथाम् / निहतोऽहं भविष्यामि हते ह्यस्मिंस्तपस्विनि // 236 // वनदेवतया मुक्तो विमलप्रार्थनात् ततः / हसितो बालसार्थेन निखिलैर्निन्दितो जनैः // 237 / / बहिष्कृतोऽहं स्वजनैलघुतिस्तृणादपि / तथाऽपि प्राक्तनस्थित्या विमलो मां विलोकते // 238 // न विप्रियं दर्शयति भाषते मूर्खभाषितैः / न शोच्यं भवता मित्र ! दुराराधो ह्ययं जनः // 239 // दुष्टेऽपि मयि शिष्टत्वं विमलो नैव यज्जहौ / छिन्दतोऽपि तरो छायां प्रकृतिर्ददतो हि सा // 24 // सज्जनाः सजना एव दुर्जना एव दुर्जनाः / विशदा न तमोव्यूहा मलिना न विधोः कराः // 241 // खळतायास्तथा दृष्टिः सज्जनेन बहिष्कृता / खलचेष्टां यथा नायं पुरःस्थामपि पश्यति // 242 // विमलेनाऽनुजगृहे ततस्त्यक्तोऽप्यई जनैः / मदन्वितोऽन्यदा प्राप्तो विमलो जिनमन्दिरम् // 243 / / स्तोतुं प्रावर्त्ततार्हन्तं स विधायाखिलां क्रियाम् / अत्रान्तरे रत्नचूडः सम्प्राप्तः सचरान्वितः // 244 // आकर्ण्य सोऽथ मधुरां विमलस्य स्तुतिध्वनिम् / सह स्त्रिया च खचरैचित्रन्यस्त इव स्थितः // 245 // अथ तुष्टाव विमलः पश्यन्निव पुरः स्थितम् / उद्भिन्नपुलकोऽर्हन्तं गम्भीरमधुरम्वनिः // 246 // नृत्यन्निव ध्यानलय शं मज्जन्निवाऽमृते / क्षालयन्निव कल्याणीभक्तिहर्षाश्रुभिर्मलम् // 247 // पुण्याधिविस्तारकरः सुवृत्तः पीयूषवर्षी तमसां विहन्ता / करोति मन्नेत्रचकोरकस्य मुदं भवानिन्दुरिवोरुदीप्तिः / / 248 // भक्तिं चरीकत्ति विभो ! त्वदीयामाज्ञां बरीभर्ति च यो विशुद्धाम् / न संसरीसति स तस्य नूनं पुरो नरीनति महोदयश्रीः // 249 // न विस्मयो मोहमलिम्लुचो यत् त्वयानभाजो बहिरेति चित्तात् / पश्चाननाधिष्ठितकाननात् किं शगालबालो न पलायते वा // 250 // प्रशान्तदृष्टिं स्थिरसन्निवेशां विकारहीनामतिसुप्रसन्नाम् / न नाथ ! मुद्रामपि तीर्थिकास्तेऽनुकुर्वते काऽन्यगुणप्रवृत्तिः // 251 // जगद्धतं येन दुराशयेन सोऽपि त्वयाऽहन्यत मोहमल्लः / भानुः समुद्यन् प्रबलप्रतापः सर्वकषं किं न तमः प्रमाष्टिं // 252 // त्वदाननेन्दुं जिनराज ! दृष्ट्वा मनो मदीयं द्रवतीन्दुकान्तम् / शमामृताऽऽपूर्णगुणालवालैः प्रवर्द्धतां त्वत्करुणालताऽतः // 253 // निहत्य मिथ्यात्वपिशाचमीश ! तव प्रसादात् पटुतां गतोऽस्मि / तथापि तृष्णा छलयत्यहो ! मां स्वामिन् पिशाची विनिवारयैनाम् // 254 / / ममैकतस्त्वदूचनानुवृत्तिस्तथाऽन्यतः संसतिपाशबन्धः / पंथीव पङ्गोर्गमनं तदेतन्न शोभते त्याजय सर्वबन्धम् // 255 // 1. बद्धस्य मार्गे गमनं त॥