________________ श्लो० 176-234 ] वैराग्यरतिः। यास्यामि स्वस्थतां दृष्टे साम्प्रतं तु द्रुतं त्वयि / विमलोऽवक सुसम्पन्नं गच्छावो जिनमन्दिरे // 205 // मयेत्थमस्विति प्रोक्ते गतौ तत्राऽविशत् ततः / विमलोऽभ्यन्तरे द्वारदेशेऽहं चकितः स्थितः / / 206 / / व्यचिन्ति रत्नहरि नूनं मां ज्ञातवानयम् / तन्नश्यामि द्रुतं नो चेदयमुद्दालयिष्यति / / 207 // विदेशं यामि न पुरे ह्यस्मान्मोक्षः स्थितस्य मे / नष्टस्ततस्यहेणागामष्टाविंशतियोजनीम् // 208 // अद्राक्षं तत्र पाषाणं रत्नग्रन्थौ विमुद्रिते / कृच्छेण चेतनां प्राप हा ! हतोऽस्मीति मूर्छितः // 209 // इष्टप्रदेशाभिमुखं वलितस्तज्जिहीर्षया / पुनः प्रवृद्धानुशयः स्तेयमायाविलुप्तधीः // 210 // इतश्च विमलेनाहं जिनगेहानिरीयुषा / न दृष्टो जातचिन्तेन वनेऽशेषे गवेषितः // 211 // तत्रानासाद्य सर्वत्राऽन्वेषितो नगरेऽप्यहम् / तत्राऽप्यदृष्ट्वा सर्वत्राऽन्वेषकाः प्रेषिता नराः // 212 // दृष्टस्तेष्वहमेकेनाऽऽगच्छन्नक्तश्च वर्तते / विमलस्त्वद्वियोगेन वामदेव ! भृशातुरः // 213 // ततो ध्यातं मया नाहं विमलेनाऽस्मि लक्षितः / विगतं मे भयं नीतः समीपे विमलस्य तैः // 214 // स्नेहेनाऽऽलिङ्गितस्तेन द्वाभ्यां मुक्ताऽश्रुधोरणी / सव्याजाव्याजचित्ताभ्यां पप्रच्छ विमलस्ततः // 215 / / वामदेव ! वदेयं तं कालं किमनुभूतवान् ? / मयोक्तं त्वयि चैत्यान्तः प्रविष्टे प्रविविक्षुणा // 216 // मयाऽम्बरचरी दृष्टां समायान्ती नभोऽध्वना / प्रभोद्भासितदिकचक्रा पुण्यलावण्यशालिनी // 217 // आकृष्टाऽसिश्च लेखेवं चान्द्री रुद्राहिभीषणा / गतस्तां प्रेक्ष्य भीप्रेमकरम्बितरसान्तरम् // 218 // तदैवोत्पाटय नीतः खे हा ! कुमारेत्यहं रटन् / तया स्तनोपपीडं च सस्नेह मवगृहितः // 219 // विषवत्प्रतिभाता सा सुतं च प्रार्थयत्यपि / चुम्बन्ती च बलाद् वक्त्रं त्वया विरहितस्य मे // 220 // अत्रान्तरे समायाता तत्राऽम्बरचरी परा / विलोकितोऽहमनया साऽपि मां चकमेतराम् // 221 // उद्दालने प्रवृत्तायां मम तस्यां तयोरभूत् / घोरं परस्परं युद्धं द्वयोः खचरयोषितोः // 222 / / ततो व्याकुलखेचर्याः पतितः फलवत् करात् / चूर्णिताङ्गोऽपि नष्टोऽहं पुनः संहृतिभौतिभाग / / 223|| अमीभिः पुरुषदृष्टः प्रापितश्च त्वदन्तिके / कुमार ! मारजैत्रेदमनुभूतं स्फुटं मया // 22 // तच्छृत्वाऽनुपधिस्नेहाद् रञ्जितो विमलो हृदि / प्रत्यायितो मुग्ध इति हृष्टा बहुलिका च मे // 225 // अत्रान्तरे मग्न इवाम्भोधौ दष्ट इवाऽहिना / कामप्यहं दशां प्राप्तः शोच्यां प्लुष्ट इवाग्निना // 226 // उत्थितं शूलमुदरे विलूने इव लोचने / तीवा शिरोतिरुदिता स्फुटितं सन्धिबन्धनैः // 227 // उल्ललास महाश्वासो विमलो व्याकुलोऽभवत् / वैद्यमण्डलमाहूय कारिता भेषजक्रिया // 228 / विशेषो न तथा जातो विमलो रत्नमस्मरत् / गतो वने प्रदेशं तं यत्नतस्तन्निरूपितम् // 229 // अदृष्ट्वा तत्र तद् रत्नं हा ! जीविष्यत्यसौ कथम् ? / इति चिन्तापरोऽभ्यणं विमलो मे समागतः // 230 // अत्रान्तरे प्रादुरभूदेका वृद्धनितम्बिनी / करालरूपा निर्मुक्तफेत्कारा विलुलत्कचा // 231 // भौतो जनः कृता पूजा पृष्टा धूपं प्रदाय सा / का त्वं भट्टारिकेऽसीति सा प्राह वनदेवता // 232 // मयैव वामदेवोऽयं विहितो मृतसन्निभः / यदनेनापदम्भोऽपि विमलो वश्चितः सुहृत् // 233 / / अस्य रत्नं हृतं न्यस्तं प्रदेशेऽन्यत्र पाप्मना / गृहीत्वा तद्धिया नष्टः पाषाणं पुनरागतः // 234 //