SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ विमलप्रभायां [अभिषेक 10 'द्रव्यमात्मानं त्रिशुवधा कायवाक्चित्तशुद्धया ससुतदुहितरं ददाति, कन्यकां गोत्रजामन्यां यदि स्वकीया नास्ति। एवं दक्षिणां दत्त्वा ततोऽध्येषणां करोति प्रणिधानं च। अद्यैवाहं जिनानां शरणमधिगतो बोधिसीम्नः। युष्मत्पादाब्जयोर्वे भवभयहरयोः कायवाक्चित्तशुक्चेति, अध्येष्यो गुरुः स्यात् सकनककुसुमैमण्डलं कारयित्वा ततः प्रणिधानं करोति // 85||[212a] वजं घण्टां च मुद्रां गुरुमपि शिरसा धारयामीष्टवजे दानं दास्यामि रत्ने जिनवरसमयं पालयाम्यत्र चक्रे / पूजां खड्ने करोमि स्फुटजलजकुले संवरं पालयामि सत्त्वानां मोक्षहेतोजिनजनककुले बोधिमुत्पादयामि // 86 // . 'वन घण्टां च मुद्रां गुरुमपि शिरसा धारयामोष्टवत्रं वचकुले स्थितः 'इमं समयं गृह्णामि / दानं दास्यामि रत्नकुले स्थितः। पुण्यसं भारणाय दशविधं दानं दास्यामि लोहरत्नान्नगोवाजिगजकन्यावसुन्धरा / इष्टा भार्या स्वमांसानि दानं दशविधं मतम् // इति। चिन्तामणि साधयित्वा दानं दास्यामीति प्रणिधानम्। जिनवरसमयं पालयाम्यत्र चक्रे चक्रकुले स्थितः पञ्चामृताद्यं गोकुदहनं स्कन्धेन्द्रियसमूहं रक्षामीति प्रणिधानम् / पूजां खड्गे करोमि 'खड्ने स्थितः सन् गुरुबुद्धबोधिसत्त्वानाम्, अन्येषामपि पूजां सर्वोपकरणैः करोमीति प्रणिधानम् / स्फुटजलजकुले पद्मकुले स्थितः, वर्णावर्णाभिगमने स्फुटं पद्मसंपर्के संवरं ब्रह्मचर्य पालयामि शीलसंभारायेति प्रणिधानं करोमि / सत्त्वानां मोक्षहेतोजिन जनककुले, एकशकवजे स्थितः १°सन् बोषिमुत्पावयामि शून्यताकरुणात्मिकां महामुद्रासिद्धिमिति प्रणिधानं करोमि / / 86 // स्नातो गन्धानुलिप्तो व्रतनियमयुतः पूर्वभूम्यां निवेश्य सिद्धयर्थ दन्तकाष्ठं जिनवरकुलिशैश्चाभिमन्त्र्य प्रदेयम् / जिह्वायां चामृतं वे जिनवरसमयधूपमावेशनार्थ मन्त्रं हूँकारमेकं त्वरलपिसहितं चोदनं क्रोधभर्तुः / / 87 // 25 1. च. भो. द्रव्यात्मानं / 2. ग. वज्र। 3. ख. ग. च. छ. इदं। 4. क. •भाराय / 5. छ. शोधयित्वा / 6. ख. ग. च. भो. खडगकूले / 7. भो. bLa Ma Dam Pa (सबगर) / ८.क. करणे। 9. ग. कनक। 10. ग. सम्बोधिचित्त०, च. सम्बोधि०।
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy