SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पटले स्वरोदययन्त्रविधिनियममहोद्देशः धैरक्षरपिण्डंद्विगुणं मात्रापिण्डं चतुर्गुणं सप्तभागावशेषं फलम् / एतैः स्वराद्यैरन्यैरपि प्रपञ्चेन स्वरेणोक्तः (ईश्वरेणोक्तः)' समविषमगतैनिष्फलादेश एव / [85a] कुतः ? पञ्चाभिज्ञाऽभावात्, सर्व लोकव्यवहारेण बालानां व्यामोहजनकवाक्यम्, स्वकर्मफलभोगरहितम् / ग्रहादिबलव्यपदेशेन ऋषिभिमिथ्या रचना कृता, ईश्वरधर्मस्थैः स्वरोदयरचना" कृता, इति ईश्वरेण भाषितमिति मृषावाक्येन लोकान् प्रतारयन्ति / एतत् प्रपञ्चं विस्तरेण 5 परमाक्षरज्ञानसिद्धी वक्तव्यमत्रतिष्ठत्विति / इदानीं मूलराहुबलमुच्यते काल इत्यादिकाल: सव्येऽव(प)सव्ये यदि भवति तमी युद्धभूमी नृपाणां संग्रामे देवनाथो हरिहरसहितो हन्यते मानुषैश्च / तस्मात् श्रीमूलराहुस्त्रिभुवनविजयी वक्ररुद्रासुरीणां 10 ज्ञातव्यो युद्धकाले क्षितिवलयगतो नान्यथा शत्रुनाशः // 124 // कृत्वा ऋक्षाणि भूमौ मुनियुगविहितानीन्द्रयक्षाब्धियाम्ये तच्चक्रं भ्राम्यमाणं दिवसगतिवशाद् वेदितव्यं समस्तम् / नक्षत्रे यत्र काल: प्रभवति च तमी दृष्टिपाते द्वयोश्च संग्रामे शत्रुसैन्यं निपतति सहसा गर्भमध्ये जयः स्यात् // 125 // 15 राही काले स्थितानां भवति समरणं तुल्यपातो बलानां दृष्टयंशे निर्गतानामुरगगतिवशात् सैन्यभङ्गो हि तत्र / दृष्टयंशं वर्जितानां प्रभवति विजयो गर्भवेशे द्वयोश्च एवं श्रीमूलराहुगुरुवचनगते ज्ञायते कालचक्रे // 126 / / अत्र* कृत्वा ऋक्षाणि भूमौ इत्यष्टाविंशद् ऋक्षाणि, सूर्यो यस्मिन्नक्षत्रे तत् नक्षत्रं 20 पूर्वसप्तनक्षत्राणां मध्ये सव्याव(प)सव्यं(ये) त्रीणि त्रीणि नक्षत्राणि मुनिरिति पूर्वे सप्त युगनिह(विहि)तानि, यथा पूर्वे सप्त तथा उत्तर पश्चिमे याम्ये, चक्र भ्राम्यमाणं 1. भो. dBai Phyug Gis (ईश्वरेण)। 2. ग. सर्व० (सर्वत्र 'व' इति) / 3. ग. भिम्मिथ्या। 4. ग. धर्मस्थैः (सर्वत्र 'म' इति)। 5. घ. वचना / 6. इदं तु पञ्चमपटले आगतम् / 7. घ. विहतानि; भो. bsGyur ba (विहितानि)। 8. ग. सर्वे / 9. भो. सप्त इति नास्ति / *. 124-126 संख्याकानां त्रयाणां श्लोकानामत्र टीकाक्रम एवमागतः-सर्वप्रथम १२५तमश्लोकस्य टीका प्रारब्धा; तत्र च आद्यात् 'प्रभवति च तमी' इत्यस्य व्याख्यानानन्तरं १२४तमश्लोकस्य द्विपादयोर्व्याख्यानमागतम्, ततः १२५तमश्लोकस्य शेषांशस्य व्याख्यानम् ; तदनन्तरं १२६तमश्लोकस्य व्याख्यानम्; एवमन्ते १२४तमश्लोकस्य अन्तिमद्विपादयोर्व्याख्यानम् /
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy