________________
४ . श्रीतिलकाचार्यविरचितटीकायुतम् साधवः सन्ति। दानभक्तैषणे रताः । दात्र्या दानायानीतस्य भक्तस्य एषणे-शुद्धत्वान्वेषणे रताः। विहङ्गमा इव- भ्रमरा इव । पुष्पेषु । अत्र निषेधो व्यङ्ग्यः। न पुनर्लोल्या-दाधाकर्मादिदुष्टेषु विशिष्टेष्वपि मोदकादिषु । भ्रमरा अपि पुष्पेष्वेव रताः, न तूत्कृष्टफलादिषु।
एवं तर्हि कथं यूयं वर्तिष्यथेति, केनाप्युक्ते, साधवो ब्रुवतेंवयं च वितिं लब्भामो, न य कोइ उवहम्मई । . अहागडेसु रीयंते, पुप्फेसु भमरा जहा ।।४॥
वयं च वृत्तिं लप्स्यामहे न कोऽपि-प्राणी पृथ्वीकायादिरूपहनिष्यते । यतो यथा कृतेषु-स्वार्थप्रगुणितेषु आहारेषु विषये साधवो ग्रहणबुध्या रीयन्ते-विचरन्ति । यथा भ्रमराः स्वयं सिद्धेषु पुष्पेषु रसार्थं व्रजन्ति । न पुनर्भमरार्थं वृक्षाः पुष्यन्ति । तथा च- वासइ न तणस्य कए, न तणं वड्डइ कए मयकुलाणं ।
न य रुक्खा सयसाहा, फुलंति कए महुअराणं ।। १।। [ ] तथा । महुकारसमा बुद्धा, जे भमंति अणिस्सिया । नाणा पिंडरया दंता, तेण वुझंति साहुणो त्ति बेमि ।।५।।
महुकारत्ति-आर्षत्वादाकारः, मधुकरसमाः। यथा मधुकराः अनिश्रिताःआरामादिष्वप्रतिबद्धाः । तथा बुद्धाः- ज्ञाततत्त्वाः साधवोऽनिश्रिता:- कुलादिष्वप्रतिबद्धा भवन्ति भ्रमन्ति वा । नानापिण्डरता:-नानगृहेभ्योऽल्पाल्पपिण्डग्रहणे रताः। नानाप्रकारा वा संसृष्टाऽसंसृष्टाद्यभिग्रहविशेषात् पिण्डास्तेषु रताः। दान्ताः-दमितेन्द्रियाः, न तु लोल्यादेकस्मिन्नेव गृहे संपूर्णग्राहिणः। तेन एवंविधाचारेण साधव उच्यन्ते। इतिसमाप्तौ, ब्रवीमि। तीर्थकृद्गणधरोपदेशेन न तु स्वमत्या । अत्र श्लोकचतुष्के ऽपि मधुकरदृष्टान्तस्य भङ्गयन्तरेणोक्तत्वान्न पौनरुक्त्यामाशङ्कनीयम् ।।
॥दुमपुष्पिकाध्ययनं प्रथमं व्याख्यातम् ।। • इव पुष्पेषु ६.९ ।। १. ज्ञेयः २ टि० ।। २. भ्रमरा न उत्कृष्टफलेषु रक्त ८ टि० ।। - हे यथा न ११ ।। * नैव ५-१० ।। ०रूपो ५.६.८-११।। - ततो ६.८-१० ।। ३. री गतौ ३ टि० ।। . यथा ६.९ ।। ४. मेघः तृणस्य कृते न वर्षति, तृणं मृगकुलानां कृते न वर्धते, न च वृक्षाः न च शाखा: भ्रमराणां कृते पुष्पन्ति ६ टि० ।। ति० ६.९ ।। *ण ६.८-१० ।। . ति० ६.९ ।। ४ ण ५-१० ।। 9 रंति ५-९, ०रति १० ।। ५. अथिरा ८ टि० ।। ष्टा द्यभि० १.१०.११ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org