________________
श्रीदशवैकालिकसूत्रम् धर्मो मङ्गलमुत्कृष्टमित्यनेन मङ्गलमुक्तं । अहिंसासंयमस्तपः । अहिंसा-प्राणिदया। संयमः-भवभ्रमणहेतुषु विषयेषु प्रवर्तमानानामिन्द्रियाणां संयमनं, उपरमणं वालनं । तपः-अनशनादिद्वादशभेदम् । इत्यनेनांशेनाभिधेयमभिदधे । अस्मिन्नहिंसादेरेव व्याख्येयत्वात् । देवा अपि तं नमस्यन्ति । येस्य धर्म सदा मनः । इत्युत्तरार्धन प्रयोजनं फलभूतमुद्भावितम् । इह चैतत्सांदृष्टिकं फलं, आयति फलं तु निःश्रेयसमेव, सर्वेषामपि धर्मशास्त्राणां निःश्रेयसफलत्वात् । सम्बन्धश्चानुक्तोऽपि वाच्यवाचकरूपः प्रतीत एव। घेटशब्दाद्वाचकान्मृन्मयं वर्तुलाकारं जलाधारं वाच्यं । गोशब्दात् खुरककुद-विषाणादिमन्तं पदार्थमबलाबालगोपालादयोऽप्यवबुध्यन्त एव ।। अथैवंविधधर्मविधायिनां साधूनां प्रथमं श्लोकचतुष्टयेन माधुकरी वृत्तिमाह
जहा दुम्मस्स पुप्फेसु, भमरो आवियइ रसं ।।
णय पुष्पं किलामेइ, सो ह पीणेइ अप्पयं ।।२।। यथा द्रुमस्य पुष्पेषु भ्रमरो रसम्-मकरन्दमापिबति । आ-मर्यादया । न च -नैव। पुष्पं क्लमयति-ग्लानिं नयति । आत्मानं च प्रीणयति इत्यक्षरार्थः। अत्र चोपमेयं व्यङ्ग्यं । भ्रमरवत्साधुः । पुष्पाणि गृहस्थगृहाणि । रस आहारलेशः, तं गृह्णाति, न तं गृहस्थं पीडयति । आत्मानं च तर्पयति ।
तथाएमेए समणामुत्ता, जेलोए संति साहुणो ।
विहंगमा व पुप्फेसु, दाणभत्ते सणे रया ॥३॥ . एवं पूर्वोपवर्णितसाधुवत् । एते श्रमणा:-तपोधनाः । मुक्ताः-बाह्येन वसत्युपकरणादिना, आभ्यन्तरेण च क्रोधादिना परिग्रहेण रहिताः । ये लोके-मनुष्यलोकरूपे साधवः सन्ति। दानभक्तषणे रताः । दौत्र्या दानायानीतस्य भक्तस्य एषणे-शुद्धत्वा१. प्रधानम् ६ टि० ।। २. निवर्त्तनम् ६ टि० ।। ३. मूलकारणं कथितम् ६ टि० ।। * ०धेयम् ५-१०।। ४. जन्मदिनादपि श्रीवज्रस्वामिन इव ३ टि० ।। ५. पुरुषस्य ६ टि०।। ६. कथितम् ६ टि० ।। ७. तत्कालिकं २.६ टि० ।। ८. उत्तरकाले ६ टि० ।। . ०लं निः० ६-१० ।। ९. मोक्षमेव ६ टि० ।। १०. अकथितोऽपि ६ टि० ।। ११. विख्यात एव ६ टि० ।। १२. घटशब्दकथनात् वर्तुलाकारं स्वयमेव ज्ञातव्यम् ८ टि० ।। १३. गोशब्दकहणे सति खुरककुदगलोलटके ८ टि०, वाचकात् ६ टि० ।। 0 ०प्येवं ६.८।। ०वं विविध० ११.।।
चायमों व्यङ्ग्यः ५-१० ।। १४ ज्ञेयं २ टि०, व्यङ्ग्यः= प्रकटनीयः ६ टि० ।।+ ०णाः मुक्ता ५-९ ।। . अ०८।। दात्रा ८-१० ।। १५. स्त्रिया ६ टि० ।। १६. अन्नस्य ६ टि० ।। १७. विचारणे ६ टि० ।।
.
१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org