________________
४२२. श्रीतिलकाचार्यविरचितटीकायुतम् वदेद् वा वृष्टो बलाहकः । इति ।।
अंतलिक्खित्त णं बूया, गुज्झाणुचरियत्ति य । रिद्धिमंतं नरं दिस्स, रिद्धिमंतं ति आलवे ।।५३।।
णमिति एतन्नभः अन्तरिक्षमिति ब्रूयात् । गुह्यकानुचरितमिति वा-गमनागमनेन देवैः सेवितमित्यर्थः । तथा ऋद्धिमन्तं नरं दृष्ट्वा ऋद्धिमानयमित्यालपेत् ।।
तहेव सावजणुमोयणी गिरा, ओहारिणी जा य परोवघाइणी । सो कोह लोह भय हास माणवो, न हासमाणोवि गिरं वइजा ।।५४॥
तथैव सावद्यानुमोदिनी गी:-यथा, सुष्ठु हतो ग्राम इति । अवधारिणी-यथा, इदमित्यमेव । या च परोपघातिनी-यथा, मासं न दोषायेति । स-इति तां क्रोधाद् लोभाद् भयाद् हास्यात् । मानवः-साधुः । हसन्नपि गिरं नो वदेत्-प्रभूतकर्मबन्धहेतुत्वात् ।।
वाक्यशुद्धिफलमाहसव्वक्कसुद्धिं समुपेहिया मुणी, गिरं च दुटुं परिवजए सया । मियं अदुटुं अणुवीइ भासए, सयाण मझे लहई पसंसणं ॥५५॥
सती चासो वाक्यशुद्धिश्च सद्वाक्यशुद्धिः, स्ववाक्यस्य वा शुद्धिः स्ववाक्यशुद्धिस्ताम्, अथवा स मुनिर्वाक्यशुद्धिम् । समुत्प्रेक्ष्य गिरं तु । दुष्टम्सावधादिरूपम् । परिवर्जयेत् सदा । मिताम् अदुष्टाम् अनुविचिन्त्य भाषमाणः सतां मध्ये लभते प्रशंसनम् ।।
यतश्चैवमतःभासाय दोसे य गुणे य जाणिया, तीसे य दुढे परिवजए सया छसु संजए सामिणीए सया जए, वयज बुद्धे हियमाणुलोमियं ।।५६।।
भाषाया दोषांश्च गुणांश्च ज्ञात्वा, तस्याश्च दुष्टाया भाषायाः परिवर्जकः सदा षट्सु-जीवनिकायेषु । संयतः श्रामण्ये सदा यत । वदेत् बुद्धः हितम् । अनुलोम्नि भवम् आनुलोमिकम्-अत्यन्तमनुकूलं प्रियङ्करम् ।। ।
उपसंहरन्नाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org