SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् बहवे इमे असाहू, लोएवुचंति साहूणो । न लवे असाहु साहु त्ति, साहू साहु त्ति आलवे ।।४८ ।। बहव: इमे - आजीवकादयोऽसाधवः । लोके - लोकमध्ये । उच्यन्ते साधवः । अतो नालपेदसाधुं साधुमिति - मृषावादप्रसङ्गात् । साधुं साधुमित्यालपेत् ।। किं विशिष्टं साधुं साधुमित्यालपेदित्याहनाणदंसणसंपन्नं, संजमे य तवे रयं । एवं गुणसमाउत्तं, संजयं साहूमलवे ।। ४९ ।। स्पष्टः ।। तथा देवाणं मणुयाणं च, तिरियाणं च वग्गहे । अमुयाणं जओ होउ, मा वा होउ त्ति नो वए । ५० ।। देवानाम्-देवासुराणाम् । मनुजानाम् - राजादीनाम् तिरश्चाम् - महिषादीनाम् । व्युद्ग्रहे । अमुकानां जयो भवतु । मा वा भवत्विति नो वेदत् - तत्पक्षपाति - द्वेषप्रसङ्गात् ।। ४२१ . किं च वाउ वुटुं च सीउण्हं, खेमं धायं सिवंति वा । कया णु हुज्ज एयाणि, मा वा होउत्ति नो वए ।। ५१ । । वायुर्वातः-मलयमारुतादिः । वृष्टम् - वर्षणम् । शीतम् उष्णम् । क्षेमम्राजादिविड्वरशून्यम् । ध्रातम्— सुभिक्षम् । शिवमिति वा । कदा नु भवेयुरेतानि मा वा भवेयुरिति धर्माद्यभिभृतो न वदेत् उभयथापि केषाञ्चित् सत्त्वानां पीडासम्भवात्।। तहेव मेहं व नहं व माणवं, न देवदेवत्ति गिरं वइज्जा । समुच्छिए उन्नइए वा पओए, वइज्ज वा वुटुं बलाहग त्ति ।। ५२ ।। तथैव मेघं वा, नभो वा, मानवं वा प्रति देवदेव इति गिरं नो वदेत्मृषावादप्रसङ्गात् । कथं तर्हि वदेत् ? उन्नतं मेघं दृष्ट्वा सम्मूर्च्छित उन्नतो वा पयोदः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy