SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ योगबिन्दु सूत्र : ११९-१२०-१२१-१२२ १७७ चोपदेशो यथा येषां दातव्यस्तदाह-विशेषेण-सम्यग्दृष्ट्याधुचितदेशनापरिहाररूपेण, आदिकर्मणां-प्रथममेवारब्धस्थूलधर्माचाराणाम् । न ह्यत्यन्तमुग्धतया कंचन देवतादिविशेषमजानाना विशेषप्रवृत्तेरद्यापि योग्याः, किंतु सामान्यरूपाया एवेति ॥ ११९॥ तर्हि कदा विशेषेण प्रवृत्तिरनुमन्यत इत्याशंक्याह - __गुणाधिक्यपरिज्ञानाद, विशेषेऽप्येतदिष्यते । अद्वेषेण तदन्येषां, वृत्ताधिक्ये तथात्मनः ॥ १२०॥ 'गुणाधिक्यपरिज्ञानाद्'-देवतान्तरेभ्यो गुणाधिक्यस्य गुणवृद्धेरवगमात् विशेषेऽप्यर्हदादौ किं पुन: सामान्येन एतत्पूजनमिष्यते । कथमित्याह अद्वेषण अमत्सरेण, तदन्येषां-पूज्यमानदेवताव्यतिरिक्तानां देवतान्तराणां, वृत्ताधिक्येआचाराधिक्ये सति तथा' इति विशेषणसमुच्चये 'आत्मनः'-स्वस्य देवतान्तराणि प्रतीत्येति ॥१२० ॥ गुरुदेवादिपूजनमित्यत्रादिशब्दप्रगृहीतं पूजनीयान्तमधिकृत्याह पात्रे दीनादिवर्गे चं, दानं विधिवदिष्यते । . पोष्यवर्गाऽविरोधेन, न विरुद्धं स्वतश्च यत् ॥ १२१॥ पात्रे-दायकलोकरक्षाकरे 'निर्दिक्ष्यमाणलक्षणे दीनादिवर्गे च भणिष्यमाणरूप एव दानं-स्वविभवातिसर्गरूपम् विधिवद्-विधियुक्तं 'इष्यते' मतिमद्भिः, कथमित्याह पोष्यवर्गाऽविरोधेन-मातापित्रादिपोषणीयलोकस्य वृत्तेरनुच्छेदनेन । न विरुद्धं न दायकग्राहकयोधर्मबाधाकारि हलोदूखलादिवत् स्वतश्च-स्वात्मना च यत्-दीयमानमिति ॥१२१॥ एतदेव भावयति - . व्रतस्था लिङ्गिनः पात्रमपचास्तु विशेषतः । स्वसिद्धान्ताऽविरोधेन, वर्तन्ते ये सदैव हि ॥१२२॥ व्रतस्था-हिंसानृतादिपापस्थानविरतिमन्तः 'लिङ्गिनो'- व्रतसूचकतथाविधनेपथ्यवन्तः 'पात्रम्' अविशेषेण वर्तन्ते । अत्रापि विशेषमाह १. शब्दोपगृहीतं-A.B.C.; २. निर्देक्ष्य-A.B.C.; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy