SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १७६ योगबिन्दु सूत्र : ११९ . पप्रच्छ-किं त्वमत्यन्तविच्छायवदना सखी ? तयोचे पापसद्माहं, पत्युर्दुर्भगतां गता ॥ ५॥ मा विषीद विषादोऽयं, निर्विशेषो विषात्सखि । करोम्यनड्वाहमहं, पतिं ते मूलिकाबलात् ॥ ६॥ तस्याः सा मूलिकां दत्त्वा, संनिवेशं निजं ययौ । अप्रीतमानसा तस्य, प्रायच्छत् तामसौ ततः ॥ ७॥ अभूद् गौरुद्धरस्कन्धो, झगित्येव च सा हृदि । ... 'विद्राणैष कथं सर्वकार्याणामक्षमो भवेत् ॥ ८॥ गौयूथान्तर्गतो नित्यं, बहिश्चारयितुं सकः । तयारब्धो वटस्याधः, सोऽन्यदा विश्रमं गतः ॥ ९॥ तच्छाखायां नभश्चारिमिथुनस्य कथंचन । विश्रान्तस्य मिथो जल्पप्रक्रमे रमणोऽब्रवीत् ॥ १०॥ : नात्रैष गौः स्वभावेन, किं तु वैगुण्यतोऽजनि । पत्नी प्रतिबभाषे सा, पुनर्नासौ कथं भवेत् ॥ ११॥ मूल्यन्तरोपयोगेन, वास्ते सास्य तरोरधः । श्रुत्वैतत्सा पशोः पत्नी, पश्चात्तापितमानसा ॥१२॥ अभेदज्ञानतश्चारिं, सर्वां चारयितुं तकम् । प्रवृत्ता मूलिकाभोगात्, सद्योऽसौ पुरुषोऽभवत् ॥ १३ ॥ अजानानो(ना) यथा भेदं, मूलिकायास्तया पशुः । चारितः सर्वतश्चारिं, पुनर्तृत्वोपलब्धये ॥ १४॥ तथा धर्मगुरुः शिष्यं, पशुप्रायं विशेषतः । प्रवृत्तावक्षमं ज्ञात्वा देवपूजादिके विधौ ॥ १५॥ सामान्यदेवपूजादौ, प्रवृत्तिं कारयन्नपि ।। विशिष्टसाध्यसिद्ध्यर्थं, न स्याद्दोषी मनागपि ॥ १६॥ इति । विपक्षे बाधामाह न-नैव अन्यथा-चारिसंजीवनीचारन्यायमन्तरेण अत्र देवपूजनादौ प्रस्तुते इष्टसिद्धिः- विशिष्टमार्गावताररूपा स्यात्-भवेत् । अयं १. विद्राणाथ कथं-B.; २. अभेदज्ञा ततश्चारि-A.; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy