SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (४५) ཎྜཱཡྻཱ + ཛཡྻཱཡྻ |||| [६८-६९] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [ ५९ ] / गाथा ||७|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ ४४ ॥ सामायिकं चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं कायोत्सर्गः प्रत्याख्यानम् । 'तत्र' तेषु अनन्तरोद्दिष्टेषु षट्स अध्ययनेषु मध्ये 'प्रथमम् आद्यमध्ययनं सामायिकम्, आयुपन्यासञ्चास्य निःशेषचरणादिगुणाधारत्वेन प्रधानमुक्तिकारणत्वात् उक्तं च-- “सामायिकं गुणानामाधारः खमिव सर्वभावानाम् । न हि सामायिकहीनाचरणादिगुणान्विता येन ॥ १ ॥ तस्माज्जगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसाने| कदुःखनाशस्य मोक्षस्य || २ ||" तत्र बोधादेरधिकमयनं प्रापणमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थ, 'सामायिक मित्यत्र यः सर्वभूतान्यात्मवत् पश्यति स रागद्वेषवियुक्तः समः तस्याऽऽयः प्रतिक्षणं ज्ञानादिगुणोत्कर्षप्राप्तिः समायः, समो हि प्रतिक्षणमपूर्वैः ज्ञानदर्शनचरणपर्यायैर्भवाटवी भ्रमणहेतुसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभिः संयुज्यते, समायः प्रयोजनमस्याध्ययनस्य ज्ञानक्रियासमुदायरूपस्येति सामायिक, समाय एव सामायिक, तस्य सामायिकस्य, 'ण'मिति वाक्यालङ्कारे, 'इमे'न्ति अमूनि वक्ष्यमाणलक्षणानि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव द्वाराणि महापुरस्येव सामायिकस्यानुयोगार्थे - व्याख्यानार्थ द्वाराण्यनुयोगद्वाराणि, अत्र नगरदृष्टान्तं वर्णयन्त्याचार्याः, यथा हि अकृतद्वारं नगरमनगरमेव भवति, निर्गमप्रवेशो पाया भावतोऽनधिगमनीयत्वात्, कृतैकद्विकादिद्वारमपि दुरधिगमं कार्यातिपतये च भवति, चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगमं कार्यानतिपत्तये च संपद्यते, एवं सामायिकपुर| मप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं स्यादू, एकादिद्वारानुगतमपि दुरधिगमं भवेत्, सप्रभेदचतुर्दा For P&Praise City ~ 91~ वृत्तिः आवश्य अर्थाधि० ॥ ४४ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy