________________
आगम
(४५)
प्रत
सूत्रांक
[१५० ]
गाथा:
II--II
दीप
अनुक्रम
[३११
-३१७]
अनुयो०
मलधारीया
॥ २३७ ॥
Ja Educato
अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [ १५० ] / गाथा ||११९-१२२||
तपल्यः समुत्क्षिप्य शलाकापल्ये निष्ठास्थानात्परतस्तेनैव क्रमेण निक्षिप्यते, निष्ठिते च तस्मिन् शलाकापल्ये शलाका प्रक्षिप्यते, इत्थं पुनरप्यनवस्थित पल्यपूरणरेचनक्रमेण शलाकापल्यः शलाकानां श्रियते, ततोऽनवस्थितशलाकापल्ययोर्भृतयोः शलाकापल्य एवोत्क्षिप्य पूर्वोक्तक्रमेणैव निक्षिप्यते, प्रतिशलाकापल्ये च द्वितीया प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्यः समुद्धृत्य शलाकापल्यनिष्ठास्थानात्परतस्तेनैव न्यायेन प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्यस्योत्क्षेपप्रक्षेपक्रमेण शलाकापल्यः शलाकानां भरणीयः, शलाकापल्यस्य तुत्क्षेपप्रक्षेपविधिना प्रतिशलाकापल्यः प्रतिशलाकानां पूरणीयो, यदा च २४ प्रतिशलाकापल्यः शलाकापल्योऽनवस्थितपत्यश्च त्रयोऽपि भृता भवन्ति तदा प्रतिशलाकापल्य एवोत्क्षिप्य द्वीपसमुद्रेषु तथैव प्रक्षिप्यते, निष्ठिते च तस्मिन् महाशलाकापल्ये प्रथमा महाशलाका प्रक्षिप्यते, ततः शलाकापल्य उत्क्षिप्य तथैव प्रक्षिप्यते प्रतिशलाकापल्ये च प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य उत्क्षिप्य तथैव प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपत्योत्क्षेपप्रक्षेपक्रमेण शलाकापल्यो भरणीयः, शलाकापल्योद्धरणविकिरणविधिना प्रतिशलाकापल्यः पूरणीयः, प्रतिशलाकापल्योत्पाटनप्रक्षेपणाभ्यां महाशलाकापल्यः पूरयितव्यो यदा तु चत्वारोऽपि परिपूर्णा भवन्ति तदोत्कृष्टं सस्येयकं रूपाधिकं भवति । इह यथोक्तेषु चतुर्षु पत्येषु ये सर्षपा ये चानवस्थितपल्याला कापल्यप्रतिशलाकापल्यो- ॥ २३७॥ त्क्षेपप्रक्षेपक्रमेण द्वीपसमुद्रा व्याप्ता एतावत्सङ्ख्यमुत्कृष्टसङ्ख्येयकमेकेन सर्षपरूपेण समधिकं संपर्यंत इति
वृत्तिः उपक्रमे प्रमाणद्वारं
Forane & Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~ 477 ~
by dig