________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||५९ ||
दीप
अनुक्रम
[१५७]
Estiratur
“ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः)
→
मूलं [१५७]
मुनि दीपरत्नसागरेण संकलित
८०
"निर्युक्तिः [ ९४] + भाष्यं [ ५९ ] + प्रक्षेपं [ ३...]" आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
यदि ताast सागारिकास्ततः स साधुः 'थोवं भुंजति' स्तोकं भुङ्क्ते, बहुभक्तं 'विगिंचति' त्यजति गर्त्तादी- अल्पसागारिकं करोति भूलिना या आच्छादयति, अधाभ्यास एव सागारिकास्ततः 'थोवं भुंज' स्यन्यथा व्याख्यायते - स्तोकं भुङ्गे यावन्मात्रं मुखस्यान्तस्तिष्ठति तावन्मात्रमेव भुङ्क्ते, शेषं परित्यजतीति प्राग्वत्, 'पउमपत्त त्ति पद्मपत्रसदृशं निर्लेपनं पात्रे करोति 'परिगुणण 'त्ति स्वाध्यायं कुर्वस्तिष्ठतीति । एवं च व्यवस्थितस्य साधोस्ते सागारिकाः प्राप्ताः, ते च प्राप्ताः सन्त इदं पृच्छन्ति'कहिं भिक्खति त्वया भिक्षा कृतेति । तत्र 'दिमदिट्ठे विभासा उ' दृष्टेऽष्टे च 'विभाषा' विकल्पना कार्या, यदि दृष्ट भिक्षामटन तत इदं वक्ति-तत्रैव श्रावकादिगृहे भक्षयित्वा इहागत इति । अथ न दृष्टो भिक्षामस्ततः--- अहि किं वेला तेसि निबंधमि दायणे खिंसा । ओहामिओ उ बहुओ वण्णो अ पहाविओ तहि ॥ ६० ॥
अदृष्टे सतीदं वक्तव्यं किं वेला वर्त्तते भिक्षाटनस्य १, अथैवमप्युक्तानां पत्रकदर्शने निर्बन्धः ततो 'दाणत्ति दर्शयति पत्रकं, दृष्टे च पत्रके सति 'खिंसति' ते सागारिकास्तं बटुकं जुगुप्सन्ते धिक् त्वामसमीक्षितभाषिणमिति । ततः किं जातम् १'ओहामिओ उ बहुओं' अपभ्राजितो बटुकस्तिरस्कृत इत्यर्थः । वर्णश्व-यशः प्रख्यापितं तत्रेति-तस्मिन् भोजनविधी 'सुण्ण' इत्ययमवयवो व्याख्यातः, इदानीं 'बहिं सागार'त्ति अमुमवयवं व्याख्यानयन्नाह -
सुष्णघरासह वाहिं देवकुलाईसु होइ जयणा उ । तेगिच्छिघाउखोभो मरणं अणुकंपपडिअरणं ॥ ६१॥ (भा०) शून्यगृहस्यासति - अभावे 'बाहिं देवकुलाईस होति जयणा उ' ततो वहिर्देवकुलादी व्रजति, तत्रापि देवकुलादौ वनगह्वरादौ इयमेव यतना कर्त्तव्या 'वाहिं संसद लडीए दारघट्टण' इत्येवमादि सर्व कर्त्तव्यम् । अथ कथं वहिः सागारिकस
For Pernal Use On
~ 108~
or