SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१५१] + गाथा: दीप अनुक्रम [२७८ -२८४] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [७], मूलं [ १५१] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१८] उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः | अहोरात्रराशित्रिंशदधिकाष्टादशशतप्रमाणो भवति, कथमेतदवसीयते इति चेत्, उच्यते, इह सूर्यस्य दक्षिणमुत्तरं वाऽयनं त्र्यशीत्यधिकदिनशतात्मकं युगे च पंच दक्षिणायनानि पंच चोत्तरायणानि इति सर्वसङ्ख्यया दशायनानि, ततख्यशीत्यधिकं दिनशतं दशकेन गुण्यते इत्यागच्छति यथोक्तो दिनराशिः, एवंप्रमाणं दिनराशि स्थापयित्वा नक्षत्रचन्द्रऋत्वादिमासानां दिनानयनार्थं यथाक्रमं सप्तषष्टचे कषष्टिषष्टिद्वाषष्टिलक्षणैर्भागहारैर्भागं हरेत्, ततो यथोक्तं नक्षत्रादि| मासचतुष्कगतदिनपरिमाणमागच्छति, तथाहि--युगदिनराशि १८३० रूपः अस्य सप्तषष्टिर्युगे मासा इति सप्तषष्टचा भागो हियते, यलब्धं तन्नक्षत्रमासमानं, तथाऽस्यैव युगदिनराशेः १८३० रूपत्व एकषष्टिर्युगे ऋतुमासा इति एकषष्ट्या भागहरणे लब्धं ऋतुमासमानं, तथा युगे सूर्यमासाः षष्टिरिति ध्रुवराशेः १८३० रूपस्य पष्टथा भागहारे यल्लब्धं तत्सूर्यमासमानं, तथाऽभिवर्द्धिते वर्षे तृतीये पंचमे वा त्रयोदश चन्द्रमासा भवन्ति तद्वर्षं द्वादशभागीक्रियते तत एकैको भागोऽभिवर्द्धितमास इत्युच्यते, इह किलाभिवर्द्धितसंवत्सरस्य त्रयोदशचन्द्रमासमानस्य दिनप्रमाणं त्र्यशीत्यधिकानि श्रीणि शतानि चतुश्चत्वारिंशच द्वाषष्टिभागाः, कथमिति चेत्, उच्यते- चन्द्रमासमानं दिन २९ ३३ एतद्रूपं त्रयोदशभिर्गुण्यते जातानि सप्तसप्तत्युत्तराणि त्रीणि शतानि दिनानां, षोडशोत्तराणि चत्वारि शतानि चांशानां ते च दिनस्य द्वाषष्टिभागास्ततो दिनानयनार्थ द्वाषष्ट्या भागो हियते, लब्धानि षड् दिनानि तानि च पूर्वोक्तदिनेषु मील्यन्ते जातानि त्रीणि शतानि त्र्यशीत्यधिकानि दिनानां चतुश्चत्वारिंशच्च द्वाषष्टिभागाः, ततो वर्षे द्वादश मासा ( इति मासा ) नयनाय For P&Pase Cnly ~978~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy