SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [ १५० ] दीप अनुक्रम [२७७] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [७], मूलं [ १५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः स्यापि सूर्यस्याभावात् इत्येवं काक्का प्रश्ने कृते भगवानाह - 'हंता ! गोअमेत्यादि, यदा जम्बूद्वीपे द्वीपे दक्षिणार्द्धे दिवसो यावद्रात्रिर्भवतीत्यन्तं प्रत्युच्चारणीयं । क्षेत्रपरावृत्त्या दिवसरात्रिविभागं पृच्छन्नाह - यदा भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वेण दिवसो भवति तदा पश्चिमायामपि दिवसो भवति, प्रागुक्तयुक्तेरेव, यदा च पश्चिमायां दिवसस्तदा मेरोर्दक्षिणोत्तरयो रात्रिः, प्रश्नसूत्रं चैतत्, 'हंता ! गोअमे' त्यादि उत्तरसूत्रं तथैव, उक्तः सामान्यतो दिवसरात्रिविभागः, सम्प्रति तमेव विशेषत आह-यदा भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणाऐं उत्कर्षतोऽष्टादशमुहूर्त्ता दिवसो | भवतीत्यादिकं सूत्रं प्रायो निगदसिद्धं, तथापि किञ्चिदेतद्वृत्त्यादिगतं लिख्यते-इह किल सूर्यस्य चतुरशीत्यधिकं मण्ड| लशतं भवति, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिर्मण्डलानि भवन्ति, एकोनविंशत्यधिकं च शतं तेषां लवणसमुद्रमध्ये भवति, तत्र सर्वाभ्यन्तरे मण्डले यदा सूर्यो भवति तदाऽष्टादशमुहर्त्ता दिवसो भवति, यदा सर्ववाये मण्डले सूर्यो भवति तदा सर्वजघन्यो द्वादशमुत्तों दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहसँकपष्टिभागाभ्यां दिनस्य वृद्धौ त्र्यशीत्यधिकशततममण्डले पटू मुहूर्त्ता वर्द्धन्त इत्येवमष्टादशमुत्तों दिवसो भवति, अत एव द्वादशमुहूर्त्ता रात्रिर्भवति, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य, 'अट्ठारसमुहुत्ताणंतरे'ति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले सूर्यो भवति तदा मुहूसैंकषष्टिभागद्वयहीनोऽष्टादशमुहूर्त्ता दिवसो भवति, स चाष्टा दशमुहर्त्तादिवसादनन्तरोऽष्टादशमुहूर्त्तानन्तर इति व्यपदिष्टः, 'सातिरेगा दुवालसमुहुत्ता राइ'ति तदा द्वाभ्यां मुहर्त्तकपष्टिभागाभ्यामधिका द्वादशमु For P&Perase Cl ~968~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy