SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [ १५० ] दीप अनुक्रम [२७७] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [७], मूलं [ १५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥४८० ॥ दिगन्तरं क्षेत्र दिगपेक्षयोत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया, उन्नत्य-पूर्वविदेहापेक्षयोदयं प्राप्य प्राचीनदक्षिणे दिगन्तरे प्राग्दक्षिणस्यामाग्नेय कोणे इत्यर्थः आगच्छतः क्रमेणैवास्तं यात इत्यर्थः इह चोद्गमनमस्तमयनं च द्रष्टृलोकविवक्षयाऽवसेयं, तथाहि - येषामदृश्यौ सन्तौ दृश्यौ तौ स्यातां, ते तयोरुदयं व्यवहरन्ति, येषां तु दृश्यौ सन्तावदृश्यौ तौ स्तस्ते तयोरस्तमयं व्यवहरन्तीत्यनियताबुदयास्तमयाविति, अत्र काकुपाठात् प्रश्नोऽव| गन्तव्यः, ततो भरतादिक्षेत्रापेक्षया प्राग्दक्षिणस्यामुद्गत्य दक्षिणप्रतीच्यामागच्छतस्तत्रापि दक्षिणप्रतीच्यामपर विदेहापेक्षयोद्गत्य प्रतीचीनोदीचीने - वायव्यकोणे आगच्छतस्तत्रापि च वायव्यामैरावतादिक्षेत्रापेक्षयोद्गत्योदी चीनप्रतीचीने| ईशानकोणे आगच्छतः, एवं सामान्यतः सूर्ययोरुदयविधिः, विशेषतः पुनरेवं यदेकः सूर्यः आग्नेयकोणे उद्गच्छति तत्रोङ्गतश्च भरतादीनि मेरुदक्षिणदिग्वत्तनि क्षेत्राणि प्रकाशयति तदा परोऽपि वायव्यकोणे उङ्गतो मेरूत्तरदिग्भावीन्यैरावतादीनि क्षेत्राणि प्रकाशयति, भारतश्च सूर्यो मण्डलाम्या भ्रमन् नैर्ऋतकोणे उद्गतः सन्नपरमहाविदेहान् प्रकाशयति, ऐरावतस्तु ऐशान्यामुङ्गतः पूर्वविदेहान् प्रकाशयति, ततः एष पूर्वविदेहप्रकाशको दक्षिणपूर्वस्यां भरता| दिक्षेत्रापेक्षयोदयमासादयति, अपरविदेहप्रकाशकस्त्वपरोत्तरस्यामैरव तादिक्षेत्रापेक्षयोदयमासादयति, अत्रैशाम्यादिदिव्यवहारो मेरुतो बोध्यः, अभ्यथा भरतादिजनानां स्वस्वसूर्योदय दिशि पूर्व दिवे आग्नेयादिकोणव्यवहारानुपपत्तेरिति, एवं प्रश्ने कृते भगवानाह - हन्तेत्यव्ययमभ्युपगमार्थे तेन हे गौतम । इत्थमेव यथा खं प्रश्नयति तथैवेत्यर्थः, अनेन For P&Praise Cly ~963~ ७वक्षस्कारे सूर्यादेरी Si शान्यादाबुद्गमादिः सू. १५० ॥४८० ॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy