SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४४] दीप अनुक्रम [६१-६२] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [५], मूलं [ ४४] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः मुहूर्त्ता उत्पादविरहकाल उक्तः, ततश्च यत्र सप्तविंशतिर्भङ्गका उच्यन्ते तत्रापि विरहभावादशीतिः प्राप्नोति, सप्तविंशतेश्वाभाव एवेति, तत्र 'सव्येवि ताव होज्ज कोहोवउत्त'त्ति, प्रतिनरकं स्वकीयस्वकीयस्थित्यपेक्षया जघन्यस्थितिकानां नारकाणां सदैव बहूनां सद्भावात् नारकभवस्य च क्रोधोदयप्रचुरत्वात्सर्व एव क्रोधोपयुक्ता भवेयुरित्येको भङ्गः १ | 'अहवा' इत्यादिना द्वित्रिचतुःसंयोगभङ्गा दर्शिताः, तत्र द्विकसंयोगे बहुवचनान्तं क्रोधममुञ्चता पडू भङ्गाः कार्याः, तथाहि कोधोपयुक्तश्च मानोपयुक्ताश्च १ तथा क्रोधोपयुक्ताश्च मानोपयुक्ताश्च २, एवं मायया एकत्व बहुत्वाभ्यां द्वौ, लोभेन च द्वौ, एवमेते द्विसंयोगे षट् । त्रिसंयोगे तु द्वादश भवन्ति १२, तथाहि — क्रोधे नित्यं बहुवचनं मानमाययोरेकवचनमित्येकः १, मानैकत्वे मायाबहुत्वे च द्वितीयः २, माने बहुवचनं मायायामेकत्वमिति तृतीयः ३, मानबहुत्वे मायाबहुत्वे च चतुर्थः ४, पुनः क्रोधमानलो मैरित्थमेव चत्वारः ४, पुनः क्रोधमाया लोभैरित्थमेव चत्वारः ४, एवमेते द्वादश १२ । चतुष्कसंयोगे त्वष्टौ तथाहि क्रोधे बहुवचनेन मानमायालोभेषु चैकयचनेनैकः, एवमेव लोभे बहुवचनेन द्वितीयः, एवमेतावेकवचनान्तमायया जाती, एवमेव बहुवचनान्तमाययाऽन्यौ द्वौ, एवमेते चत्वार एकवचनान्तमानेन जाताः, एवमेव बहुवचनान्तमानेन चत्वार इत्येवमष्टौ एवमेते जघन्यस्थितिषु नारकेषु सप्तविंशतिर्भवन्ति, जघन्यस्थितौ हि बहवो नारका भवन्त्यतः क्रोधे बहुवचनमेव ॥ 'समग्राहियाए जहनहिईए वट्टमाणा नेरइया किं कोहोबत्ता' इत्यादि प्रश्नः, इहोत्तरम् -'कोहोबउत्ते य' इत्यादयोऽशीतिर्भङ्गाः, इह समया|धिकायां यावत्सङ्ख्येय समयाधिकायां जघन्यस्थितौ नारका न भवन्त्यपि भवन्ति चेदेको वाऽनेको वेति ततः क्रोधादि For Parts Only ~ 145~ Janurary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy