SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: ५८२ तथा दैन्यं दीनतां आदरयति - गौरवयति, दीनतां कुरुत इत्यर्थः । तथा लघिमानं - लाघवं आह्वयति- आमन्त्रयति । तथा हास्यपदं- हास्यस्थानकं आवाहयति - कारयति, हास्यं कारयतीत्यर्थः । आङ्पूर्वकस्य वहतेः करोत्यर्थत्वात् । तथा औचित्यभङ्गं - करणीयविध्वंसं आनयति-प्रापयति । तथा कार्पण्यं - कृपणतां भयातुरतां अङ्गीकारयति - अभ्युपगमयति, भयातुरं करोतीत्यर्थः । अत्र कृपणशब्दो भयातुरार्थः । "पदे पदे सन्ति भटा रणोद्भटा, न तेषु हिंसारस एष पूर्यते । धिगीदृशं ते नृपते ! कुविक्रमं कृपाश्रये यः कृपणे पतत्रिणि ।” [१|१३३] इति नैषधपद्यव्याख्यैकदेशे कृपणे दीने भयातुरेवेति वाक्यात् । तथा वस्तुभावं - वस्तुस्वरूपं अपहस्तयति - अधरयति, पौरुषं दूरीकरोति । पुरुषस्येति पदं सर्वत्र योज्यते । तथाहि तथाहीति । तदेव परप्रेष्यताभावस्य असत्त्वं दर्शयति सोच्छ्वासं मरणं निरग्निदहनं निःशृङ्खलं बन्धनं, निष्पङ्कं मलिनं विनैव नरकं सैषा महायातना । सेवासंजनितं जनस्य सुधियो धिक्पारवश्यं यतः, पञ्चानां सविशेषमेतदपरं षष्ठं महापातकम् ॥ ४५ ॥ सोच्छ्वासमिति । सुधियः - बुद्धिमतो जनस्य सेवासंजनितं वरिवस्याकृतं पारवश्यं - पराधीनत्वं धिक् । किम्भूतं पारवश्यम् ? सोच्छ्वासं - उच्छ्वाससहितं मरणं, अन्यन्मरणं निरुच्छ्वासं इदं च सोच्छ्वासमिति । परवशजनो जीवन्नपि मृत एवेति भावः । १ । तथा दहनंभस्मीकरणं निरग्नि:-अग्निरहितं । अन्यद्दहनं अग्निना भवति इदं चाग्नि विनापि । २ । तथा निःश्रृंखलं शृंखलारहितं बन्धनं । अन्यद्बन्धनं श्रृंखलया भवति इदं श्रृंखलां विनापि । ३ | तथा नि:पंकं - पङ्कं विना मलिनं, मालिन्यं भावप्रधानत्वान्निर्देशस्य, अन्यन्मालिन्यं पंकेन भवति, इदं पङ्कं विनापि । ४ । तथा नरकं - दुर्गतिं विनैव सा एषा महायातना - महापीडा । ५ । पुनः पारवश्यस्य धिक् त्वं । कुतः ? यतो हेतो: पञ्चानां मरणदहनबन्धनमालिन्यनरकरूपाणां पातकानां मध्ये एतत् पारवश्यं अपरं - अन्यत् सविशेषंअतिशायि षष्ठं महापातकं - महापापम् ॥ ४५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy