SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ ४७४ 1 शतगुणपरिपाट्या पर्यटन्नन्तराले, कमलकुवलयानामर्धरात्रे ऽप्यखिन्नः १ उपनदि दयितायाः क्वापि शब्दं निशम्य, भ्रमति पुलिनपृष्ठे चक्रवच्चक्रवाक: ॥५५॥ अपि च- पुनः शतेति । हे देव ! अर्धरात्रे - निशीथे चक्रवाकः कमलानि च पद्मानि - सूर्यविकासीनि, कुवलयानि च-नीलोत्पलानि रात्रिविकासीनि तेषामन्तराले - मध्ये शतगुणा - शतसंख्या या परिपाटी - क्रमस्तया शतवारान् यावत् । अपिशब्दो भिन्नक्रमे, पर्यटन्-भ्रमन्नपि अखिन्नः सन् उपनदि-नदीसमीपे दयितायाः - चक्रवाक्याः क्वापि - कस्मिन्नपि प्रदेशे शब्दं निशम्य - श्रुत्वा पुलिनपृष्ठे-तीरप्रदेशे चक्रवद्भ्रम्यमाणः - कुलालोपकरणवद् भ्रमति । मालिनीवृत्तम् ॥ ५५ ॥ दमयन्ती - कथा - चम्पूः अथ यथाप्रियं प्रेषित परिजनो राजा रजनिशेषमतिवाहयितुमनुरूपं निरूप्य किंनरमिथुनस्य शयनमासन्ननिद्रागृहे हंसीपिच्छच्छायाच्छप्रच्छद पटाच्छादितहंसतूलतल्प'मभजत् । अथ-अवसरपाठकोक्त्यनन्तरं यथाप्रियं प्रियं इष्टं अनतिक्रम्य यथाप्रियं यस्य यदिष्टं स्थानं तस्मिन् प्रेषित:- प्रहितः परिजनः - सेवकलोको येन एवम्विधः सन् राजा रजनिशेषंरात्रेरवशिष्टं भागं अतिवाहयितुं - लंघयितुं आसन्नं स्वसमीपवर्त्ति यन्निद्रागृहं - स्वापागारं तस्मिन्, हंसीपिच्छछायावत्-मरालीपक्षकान्तिवत् अच्छ:- विशदो यः प्रच्छदपट:उत्तरच्छदस्तेन आच्छादितं - आवृतं यद् हंसतूलतल्पं - हंसतूलीशय्या तत् अभजत्- शिश्राय । किं कृत्वा ? किन्नरमिथुनस्य अनुरूपं योग्यं शयनं - शय्यां निरूप्य - कथयित्वा यथाऽस्मिन् शयने यूयं शेध्वमिति । तत्र च दमयन्त्यनुरक्तोऽयमितीर्ष्ययेवानायान्त्यां निद्रायां द्रोणीद्रुमान्तरालसुप्तोत्थितविविधविहंगरुतानि विनिद्रवनदेवतापठ्यमानप्राभाति Jain Education International कपुण्यकीर्तनानीवाकर्णयन्ननेककालप्रणालिकापर्यायेण पर्यस्तेऽस्तगिरिमस्तके मुक्तास्तबकितनीलवितानपट इव तारातिमिरपटले, पट्टांशुकवैजयन्तीष्विव भविष्यति दिनकरोत्सवे नभस्तलमलंकुर्वतीषु पूर्वस्या For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy