SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ २५० सोऽयं यस्तेन पान्थेन यान्त्या गौरीमहोत्सवे । नलोऽप्यनल एवासीद्वर्णितो मे पुरः पुरा ॥ ८॥ सोऽयमिति । वृत्तम् । यः - नलस्तेन - पान्थेन गौरीमहोत्सवे यान्त्या - गच्छन्त्या मे मम पुरःपुरा-पूर्ववर्णितः-स्तुत:, सोऽयं नलोप्यनल एव आसीत् । अपिः- विरोधे, यो नलो भवेत् स कथं अनलः ? परिहारे तु अनल: - वह्नि : स्मरसन्तापहेतुत्वात् ॥ ८ ॥ अथास्याः परिहासशीला नामसखी नाम्नैव नलस्योद्भिन्नबहलपुलकाङ कुरामिमामवलोक्य नर्मालापमकरोत् । दमयन्ती - कथा - चम्पूः अथ-अनन्तरं अस्याः - दमयन्त्याः परिहासशीला नामेति प्रसिद्धा सखी इमांदमयन्तीं नलस्य नाम्नैव उद्भिन्ना - उद्गता बहला:- निविडाः पुलकाङकुरा:- रोमाञ्चप्ररोहा यस्याः सा, तथाविधामवलोक्य - दृष्ट्वा नर्मालापं-परिहाससम्भाषणमकरोत् । तद्यथा कोष्णं किं न निषिच्यते तव बलातैलं सखि श्रोत्रयोरन्तस्तित्तिरिपक्षिपत्रमथवा मन्दं मृदु भ्राम्यति । येनाङ्गेषु निखातमन्मथशरप्रस्फार रेपिच्छच्छविर्नीलीमेचकितोच्चकञ्चुकरुचं रोम्णां वहत्युद्गमः ॥ ९ ॥ कोष्णमिति वृत्तम् । सखीत्यामन्त्रणे हे सखि ! नु इति वितर्के तव श्रोत्रयो:कर्णयोरन्तः-मध्ये किं कु-ईषद् उष्णं कोष्णं बला - औषधिविशेषस्तस्य तैलं निषिच्यतेनिक्षिप्यमाणं वर्तते ? अथवा मृदु- सुकुमारं तित्तिरिपक्षिणः पत्रं - पिच्छं मन्दं - शनैर्भ्राम्यति ? कथमेतदवगम्यते ? येन हेतुना अङ्गेषु शरीरावयवेषु निखाता:- निमग्ना ये मन्मथशरा:कामबाणास्तेषां प्रस्फाराणि - विपुलानि यानि पिच्छानि - पत्राणि तद्वच्छवि :- शोभा यस्य स तथोक्तो रोम्णां-तनूरुहाणामुद्गम:- प्रादुर्भावो नील्या - औषधिविशेषेण मेचकितस्यश्यामलितस्य उच्चकञ्चुकस्य रुचं-कान्तिं वहति - धारयति' । प्रस्फारत्वं हि पिच्छानामप्रवेशो हेतु:, अन्यथा शरेषु प्रविष्टेषु पुङ्खपिच्छान्यपि कथं न प्रविशन्ति, तेन पिच्छच्छविरिति कविराचष्टे । येन रोमोद्गमः सञ्जातोऽस्ति तेनावगम्यते । किं ते कर्णयोर्बलातैलं निषिच्यते ? किं वा मृदुतित्तिरिपिच्छं भ्रमदस्ति ? बलातैलनिषेके तित्तिरिपिच्छभ्रमे च रोम्णामुद्भवात् ।। ९ ।। १. दधाति अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy