SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ २४९ चतुर्थ उच्छ्वासः अपि च निर्माय स्वयमेव विस्मितमनाः सौन्दर्यसारेण यं, स्वव्यापारपरिश्रमस्य कलसं वेधाः समारोपयत्। कंदर्प पुरुषाः स्त्रियोऽपि दधते दृष्टे च यस्मिन्सति, द्रष्टव्यावधिरूपमाप्नुहि पतिं तं दीर्घनेत्रे नलम्' ॥ ७ ॥ अपि च-पुनराह निर्मायेति । हे दीर्धनेत्रे ! तं नलं पतिमाप्नुहि । किम्भूतं तम् ? द्रष्टव्यावधिदर्शनीयेषु परमकाष्टाप्राप्तं रूपं-आकृतिर्यस्य स तं, प्रकृष्टाकारमित्यर्थः । तमिति कम् ? यंनलं सौन्दर्यस्य सार:-निष्कर्षस्तेन स्वयमेव निर्माय-निष्पाद्य वेधाः-विधिः विस्मितं-साश्चर्य मनो यस्या स विस्मितमना: ईदृग्विधः सन् स्वव्यापारस्य-जगत्सृष्टिकरणस्य यः परिश्रम:व्यायामस्तस्य कलसं समारोपयत्-अस्थापयत्, यथा देवकुलं निष्पाद्योपरि सौवर्णः कलसो निधीयते तथा धाता यं निर्माय स्वव्यापारश्रमस्य कलसस्थानीयमकरोत्, अतः परमुत्कृष्टो न कश्चिदस्तीत्यर्थः । च-पुनः यस्मिन्-नले दृष्टे सति पुरुषाः कन्दर्प-अहङ्कारं दधते-पुष्णन्ति न कमपीत्यर्थः, सर्वैरपि सौन्दर्यादिभिर्मदस्थानैः स्वतस्तस्मिन्नाधिक्यदर्शनात् । यस्मिन् दृष्टे स्त्रियः पुनः कन्दर्प-मन्मथं दधते-धारयन्ति, सकामाः जायन्त इत्यर्थः । अपिः-पुनरर्थे समुच्चये वा ॥ ७ ॥ दमयन्ती तु तस्मिन्क्षणे 'क्व पक्षिणो विवक्षितवाचश्च' इति विस्मयं५ भयं च, नामाप्याह्लादजनकं नलस्य' इति वपुषि वेपथु च° रोमाञ्चं च हृदयेऽनुरागमौत्सुक्यं च, समकालमुल्लोलायमानमुद्वहन्ती चिन्तयांचकार । दमयन्ती तु तस्मिन् क्षणे पक्षिण:-विहगा: क्व वक्तुमिष्टा विवक्षिता, ईदृश्यो वाचश्च क्व ? क्वशब्द अत्यन्तासांगत्यसूचकौ इति हेतोविस्मयं-आश्चर्यं भयं च-भीति, तथा नलस्य नामाऽपि-अभिधानमपि आसा तां दर्शनस्पर्शने आलादजनकं-प्रीत्युत्पादकं इति हेतोः वपुषि वेपथु च-सात्विकभावात्कम्पं रोमाञ्चं च-पुलकं, तथा हृदये-चेतसि अनुरागं-नलं प्रत्यभिलाषं औत्सुक्यं च-उत्कण्ठां, एतत्सर्वं समकालं-युगपत् उल्लोलायमानंकल्लोलवदाचरमाणं उद्वहन्ती-दधती सती चिन्तयाञ्चकार-वितर्कितवती । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy