SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: मकरन्दलवास्तैः शारः - शबल: समीर : - वायुर्वहति - वाति । " शारः शबलवातयोः [२।४७३]। द्यूतस्य चोपकरणे" इत्यनेकार्थः [२४७३-७४] । किं कुर्वन् समीर: ? अब्जराजी:- पङ्कजश्रेणी: नर्त्तयन्- कम्पयन्, तरलनमेवात्र नर्तनम् । किम्भूता अब्जराजी: ? नवविकासेन-सरोजानामभिनवोद्भेदेन उल्लासि-विस्तरद् यत् किञ्जल्कं - केसरं तस्मिन् लुभ्यन्त:-गार्घ्यमभिलाषं कुर्वन्तो ये मधुकरा:- भृङ्गास्तैः कृतं गीतं - झंकारगानं यासु तास्तथाविधाः । पुन: किम्भूतः समीर: ? शरदि भवानि शारदानि मुद्गादीनि तानि विद्यन्ते येषां ते शारदिन: - कृषिबलास्तेषामिनः - स्वामी, तत्सस्यसम्पत्तिहेतुत्वात् । मालिनीवृत्तम् ॥१३॥ १२० राजा तु तेन तस्याः सकलललितवनप्रदेश' प्रकटनप्रियालापप्रपञ्चेन परितोषितः 'साधु ! भो सारसिके ! सुभाषितमञ्जरि, साधु ! गृहाण पारितोषिकम्' इत्यभिधाय सर्वाङ्गीणाभरणप्रदानप्रसन्नाननां तामकरोत् । राजा तु नलः तस्याः - वनपालिकायास्तेन सकलाः- कृत्स्नाः ललिताः - मनोज्ञा ये वनप्रदेशाः-काननविभागास्तेषां प्रकटने-प्रदर्शने यः प्रियः - मधुर आलापप्रपञ्ज:वाग्विस्तरस्तेन परितोषितः - आनन्दितः सन् भो सारसिके ! सुभाषितानां - सूक्तानां मञ्जरिरिव या सा तस्याः सम्बुद्धौ हे सुभाषितमञ्जरि ! साधु-चारु त्वया भणितमित्यध्याह्रियते । परितोषे भवं पारितोषिकं - प्रीतिदानं वासनां साधु गृहाण -आदत्स्वे अभिधाय उक्त्वा तां - सारसिकां सर्वाङ्गाणि व्याप्नुवन्तीति सर्वाङ्गीणानि आभरणानि ' - हारादीनि तेषां प्रदानेन प्रसन्नं विकस्वरं आननं यस्याः सा तथाविधामकरोत् । पारितोषिकमिति “अध्यात्मादित्वात् ठञ् " [पा० सू० ४ | ३ |६० ] | सर्वाङ्गीणेति "तत्सर्वादेः पथ्यंगकर्म्मपत्रपात्रं व्याप्नोतीति" [पा० सू० ५/२७] सर्वपूर्वकादंगात् व्याप्नोत्यर्थे स्वः । स्वस्य चेनः । - ततश्च संचरच्चटुलभृङ्गविहंगवेल्लद्बकुल 'चम्पकचूतचन्दनमन्दारामन्दस्यन्दमानमकरन्दबिन्दुसंदोहाडम्बरिताकाण्डप्रावृषि, प्रलम्बताम्बूलवल्लीवलयितनितम्बनिम्बकिम्बजम्बीर 'जम्बूस्तम्बककदम्बके, कुसुमितकरवीर वीरुधि कोरकितकरञ्जाञ्जननिकुञ्जशिञ्जानशुककपिञ्जले, जलदसमयनीरदनीलतमाल 'तलताण्डवितशिखण्डिनि, मण्डलितमदकलकलहंसो १. यानि आभरणानि अनू. । Jain Education International For Personal & Private Use Only - www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy