SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ द्वितीय उट्वासः ११९ इहेति । मालिनीवृत्तम् । इह-पार्वतीये कन्दरे-दर्यां क्रोडयूथं-वराहवृन्दं क्रीडतिखेलति । किम्भूतं ? कवलिता:-ग्रस्ताः कन्दाः-सूरणा येन तत्, तथा कन्दलिन्यांप्ररोहबहलायां भुवि विरचिता-कृता केलि:-क्रीडा येन तत् तथाविधम् । हे देव ! इह सरसि-कासारे कुरङ्गाः कन्धरां-ग्रीवां सरलयन्तः-ऋज्वीकुर्वन्तः सन्त: कं-पानीयं धयन्तिपिबन्ति । “धेट पाने" [ ]। किम्भूते सरसि ? सरसिजानां गन्धेन-सौरभ्येण भ्रान्ताःइतस्ततः पर्यटिता भृङ्गा यत्र तत्तथाविधं तस्मिन् ॥ ११ ॥ इह पुनरनिशं निशम्य भिन्न-द्रुम-मुकुलानि कुलानि षट्पदानाम् । श्रुतिसुखकरणं रणन्ति वीणां, तदनुगुणां क्वणयन्ति' किंनरेन्द्राः ॥१२॥ इहेति । हे देव ! इह-क्रीडागिरौ पुन:-भूयः अनिशं-निरन्तरं रणन्ति-झं कुर्वन्ति षट्पदानां कुलानि-समूहान् निशम्य-श्रुत्वा किन्नरेन्द्रास्तदनुगुणां-भृङ्गरणितस्यानुगामिनी वीणां क्वणयन्ति-वादयन्ति । किम्भूतानि षट्पदानां कुलानि ? भिन्नानिमुखचरणैश्छिद्रितानि द्रुमाणां मुकुलानि-कुड्मलानि यैस्तानि । किम्भूतां वीणाम् ? श्रुत्योःकर्णयोः सुखकरणं-आह्लादकारिणीम् । करणशब्द आविष्टलिङ्गः, क्रियाविशेषणं वा । रणन्तीति रणशब्दे शतृप्रत्यये रूपम् । पुष्पिताग्रा ।। १२ ॥ इतश्च क्रीडाचलस्थलकमलदीर्घिकातीरतरुतलमनुसरत देवः । यत्र च इतश्चेति । हे देव ! इतश्च-अस्मिन्प्रदेशे क्रीडाचलस्थले याः कमलदीर्घिका:सरोजवाप्यस्तासां तीरे-तटे ये तरवस्तेषां तलं-अधोभागमनुसरतु-आश्रयतु । बहुभ्रान्त्या श्रान्तत्वात् तरुच्छायायामुपविशत्वित्यर्थः । यत्र चेति । यत्र च-तरुतले वहति नवविकासोल्लासिकिंजल्कलुभ्यन्मधुकरकृतगीता नर्त्तयन्नब्जराजीः । वनकरिमदगन्धस्पर्धिसप्तच्छदाली, कुसुमजकणशारः शारदीनः समीरः ॥१३॥ वहतीति वृत्तम् । हे देव ! वनकरिणां-वन्यहस्तिनां मदगन्धं स्पर्द्धते-संहष्यति या सा वनकरिमदगन्धस्पर्धिनी या सप्तच्छदाली-सप्तच्छदवृक्षपंक्तिस्तस्या ये कुसुमजकणाः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy