SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रथम उवासः तैस्तैरिति । तस्मात्-नेमादित्यात् अस्मि-अहं त्रिविक्रमाख्यः सुतो जातः-अभूवम् । किम्भूतोऽहम् ? जाड्यस्य-मूर्खत्वस्य पात्रं-आधारो जाड्यपात्रं, आविष्टलिङ्गोऽयम् । तस्मादिति कस्मात् ? येन-नेमादित्येन तैस्तैः-अद्भुतैः, आत्मनः-स्वस्य गुणाः गम्भीरत्वादयस्तैरात्मगुणैः, त्रयाणां लोकानां समाहारस्त्रिलोकी तस्यास्तिलकमिवाचरितं तिलकायितम् । गुणैः कृत्वा सर्वेष्वपि मुख्यो जात इत्यर्थः । “अस्मीत्यव्ययमस्मदर्थानुवादे" इति त्रिलोचनदासः [कातन्त्रवृत्तिपंजिका] । अस्मीत्यव्ययं अहमित्यर्थे * अहमित्यस्मत्प्रयोगोऽनुक्तोऽपि ग्राह्यस्ततोऽहं जातोऽस्मीति प्रयोगः२ । अत्र जातोऽस्मीति "धातुसम्बन्धे प्रत्यया" [पा० सू० ३।४।१] इति वर्तमाने क्तः३ ॥२०॥ सोऽहं हंसायितुं मोहाद् बकः पङ गुर्यथेच्छति । मन्दधीस्तद्वदिच्छामि कविवृन्दारकायितुम् ॥२१॥ सोहमिति । यथा मोहाद्-अज्ञानाद् गतिमानपि बकः स्वभावसुभगगतेहँसस्यापेक्षया पङ्गुरिव पङ गुः । अथवा देवात् कथञ्चिद्भग्नचरणत्वात् पंगुः हंस इवाचरितुं हंसायितुं इच्छति-वाञ्छति । यथा हंसो लीलया गच्छति तथाऽहमपि यामीत्येवं मोहाद्वष्टि, तद्वत् पगुबकवत् सोऽहं-जाड्यपात्रं त्रिविक्रमः मोहात् मन्दधी:-अल्पबुद्धिः सन् कविषु वृन्दारक इव-श्रेष्ठ इवाचरितुं कविवृन्दारकायितुमिच्छामि । जाड्यपात्रस्य मम तत्साम्यमपि दुःप्रापम्, क्व पुनस्तच्छ्रेष्ठत्वम् । परं तदिच्छायां मोहविलसितमेव बीजम् । अत्रैकक्रियाया द्विप्रयोगो न दोषाय भिन्नाधिकारित्वात् । “वृन्दारको मनोरमे । सुरश्रेष्ठे" [४।३४-३५] इत्यनेकार्थः ॥२१॥ भङ्गश्लेषकथाबन्धं दुष्करं कुर्वता मया । . दुर्गस्तरीतुमारब्धो बाहुभ्यामम्भसां पति:१ ॥२२॥ भनेति । मया-त्रिविक्रमेण दुष्करं-कर्तुमशक्यं भङ्गश्लेषेण प्रधानो य: कथाबन्धःकथारचना भङ्गश्लेषकथाबन्धस्तं, कुर्वता-विदधता दुःखेन गम्यतेऽत्रेति दुर्गो गन्तुमशक्यो अम्भसां पति:-समुद्रः बाहुभ्यां-भुजाभ्यां तरीतुं-लंघयितुमारब्धः । यथा बाहुभ्यां दुस्तरः * अत्रायं भावो विशेष्याय, अस्मीति आख्यातपदवाच्यायाः क्रियायाः प्राधान्यात् स्वकाल एवावस्थाविशेषणभूतायास्तु क्रियाया उपलक्षणभावेनोपादानाद् भाविभूतव्यपदेशविषयताप्रतिपादनाज्जात इत्यस्या वर्तमानत्वव्यपदेश इत्यर्थः । १. यद्वा अहं अनू० । २. क्रियाप्रयोगः अनू० । ३. 'इति वर्तमाने क्तः' स्थाने इति भूते लट साधुः अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy