SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः १८ रम्भापि व्याप्तेति निषिध्यते । इति विरोधस्तत्परिहारस्तु पूर्वपक्षव्याख्यान एवोक्त इति । एवं ते सकलगुणगरिष्ठाः शिष्टा आकर्ण्यन्ते । किम्बहुना - किं बहूक्त्या । अस्मादृशास्तेषां कियतो गुणान् वक्तुं क्षमा भवन्तीत्यर्थः । यतः जानन्ति हि गुणान्वक्तुं तद्विधा एव तादृशाम् । वेत्ति विश्वम्भरा भारं गिरीणां गरिमाश्रयम् ॥१८॥ जानन्तीति । हि:-निश्चयेन तद्विधा एव तत्तुल्य गुणा एव, तादृशानां तत्तुल्यगुणानां अनूचानां गुणान् वक्तुं जानन्ति - विदन्ति, न तु मादृशा अतत्तुल्यगुणाः । एतदेव दृष्टान्तेन द्रढयति-गरिम्ण:- दुर्वहत्वस्य आश्रयो गरिमाश्रयस्तं, गिरीणां पर्वतानां भारं विश्वम्भरैव वेत्ति-जानाति, नान्यः । विश्वम्भरेति विश्वं बिभर्तीति साभिप्रायं पदम् ||१८|| तेषां वंशे विशदयशसां श्रीधरस्यात्मजोऽभून्नेमादित्यः स्वमतिरॆविकसद्वेदविद्याविवेकः । उत्कल्लोलां दिशि दिशि जनाः कीर्त्तिपीयूषसिन्धु, यस्याद्यापि श्रवणपुटकै: कूणिताक्षाः पिबन्ति ॥ १९ ॥ तेषामिति । तेषां - अनूचानां वंशे श्रीधरस्य - श्रीधराचार्यस्य आत्मज:- - पुत्रो नेमादित्योऽभूत् । किम्भूतानां तेषाम् ? विशदं निर्मलं यशः कीर्त्तिर्येषां ते तेषां विशदयशसाम् । किम्भूतो नेमादित्यः स्वमतौ-स्वबुद्धौ विकसन्-उल्लसन् वेदविद्यानांवेदशास्त्राणां विवेक:-'स्वपक्षनिक्षेपणलक्षणं विवेचनं यस्य स स्वमतिविकसद्वेदविद्याविवेकः । यस्य नेमादित्यस्य जना अद्यापि दिशि दिशीति- सर्वदिक्षु उत्कल्लोलांउल्लासवतीं कीर्त्तिरेव पीयूषसिन्धुः - सुधासरित् औज्ज्वल्यप्रसारित्वसाम्यात् तां कीर्त्तिपीयूषसिन्धुं श्रवणान्येव - श्रोत्राण्येव पुटका: - पानपात्राणि तै: श्रवणपुटकैः कूणिताक्षा:श्रवणसुखात् किञ्चिन्मीलितनेत्राः पिबन्ति - धयन्ति । अद्यापि लोकास्तद्यशः शृण्वन्तीत्यर्थ:। सिन्धुरुत्कल्लोला ऊर्ध्ववीचिः पुटकै पीयत एवेति छायार्थः । मन्दाक्रान्ता ॥१९॥ अथ दमयन्तीकथाकर्त्ता कविः स्वनिन्दागर्भितं स्वाभिधानमाहतैस्तैरात्मगुणैर्येन त्रिलोक्यास्तिलकायितम् । तस्मादस्मि सुतो जातो जाड्यपात्रं त्रिविक्रमः ॥२०॥ Jain Education International १. स्वस्वपक्ष: अनू० । For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy