SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ २९२ राजप्रश्नीयउपाङ्गसूत्रम्-३६ मङ्गलकानि बहवः कृष्णचामरध्वजाइत्यादिचैत्यस्तूपइवतावद्वक्तव्यंयावद्बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया यावत् प्रतिरूपका इति । 'तेसि ण' मित्यादि, तेषां च चैत्यवृक्षाणां पुरतः प्रत्येकं मणियीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाअष्टौ योजनान्यायामविष्कम्माभ्यांचत्वारियोजनानि बाहल्यतः 'सव्वरयणामईओ' इत्यादि प्राग्वत्, तासांच मणिपीठिकानामुपरि प्रत्येकं महेन्द्रध्वजाः प्रज्ञप्ताः, तेच महेन्द्रध्वजाः षष्टियोजनान्यूर्ध्वमुच्चैस्त्वेन अर्द्धक्रोशं अर्द्धगव्यतमुद्वेधेन-उण्डत्वेन अर्द्धक्रशं विष्कम्भतः 'वइरामयवद्दलठ्ठसंठियसुसिलिट्ठपरिघट्टमट्टसुपइट्ठिया' इति वज्रमया वज्ररत्नमयातथा वृत्तं वर्तुलं लष्टं-मनोज्ञं संस्थितं-संस्थानं येषां ते वृत्तलष्टसंस्थितास्तथा सुश्लिष्टा यथा भवन्तिएवं परिघृष्टा इव खरशाणया पाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः मृष्टाः सुकुमारशाणया पाषाणप्रतिभावत् सुप्रतिष्ठिता मनागपि चलनासंभवात्, ततो विशेषणसमासः। 'अनेगवरपंचवत्रकुडभीसहस्सपरिमंडियाभिरामा वाउध्धूयविजयवेजयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गगनतलमभिलंघमाणसिहरा पासाईया जावपडिरूवा' इति प्राग्वत्, 'तेसि ण' मित्यादि, तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तोरणवत् सर्वं वक्तव्यं, तेषां च महेन्द्रध्वजानां पुरतः प्रत्येकं नन्दानिधाना पुष्करिणी प्रज्ञप्ता, एकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः द्वासप्तियोजनान्युद्वेधेन-उण्डत्वेन, तासां च नन्दापपुष्करिणीनां 'अच्छाओ सण्हाओ रययामयकूलाओ' इत्यादि वर्णनं प्राग्वत्, ताश्च नन्दापुष्करिण्यः प्रत्येकं २ पद्मवरवेदिकया प्रत्येकं २ वनखण्डेन परिक्षिप्ताः, तासांच नन्दापुष्करिणीनां परत्येकं त्रिदिशि त्रिसोपानप्रतिरूपकतोरणवर्णनं प्रागिव । _ सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायामष्टचत्वारिंशन्मनोगुलिकासहस्मणि-पीठिकासहस्राणि प्रज्ञप्तानि, तद्यथा-पूर्वस्यां दिशिषोडश मनोगुलिकासहस्पणि, षोडश सहस्राणि पूर्वतः षोडश सहस्पणि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ सहम्नाणि उत्तरतः, तेष्वपि फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत्, सिक्कगवर्णनघूपघटिकावर्णनं द्वारवत्। 'सभाए णंसुहम्माए' इत्यादि, सभायां सुधर्मायांअष्टचत्वारिंशत् गोमानसिकाः-शय्यारूपस्थानविशेषास्तेषां सहस्पणि प्रज्ञप्तानि, तद्यथा-षोडश सहस्राणि पूर्वतः षोडश सहस्राणि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टीसहस्राणि उत्तरतः, तास्वपिफलकवर्णनं नागदन्तवर्णनंसिक्कगवर्णतं धूपघटिकावर्णन च द्वारवत्। "सभाएणंसुहम्माए' इत्यादिना भूमिभागवर्णनं सभाएणंसुहम्माए' इत्यादिनाउल्लोकवर्णनं चप्राग्वत्, 'तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, षोडश योजनान्यायामविष्कम्भाभ्यां अष्टौ योजनानि बाहल्यतः सर्वरत्नमयी इत्यादिप्राग्वत्, तस्याश्चमणिपीठिकाया उपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, षष्टियोजनान्यूर्ध्वमुच्चैस्त्वेन योजनमुद्वेधेन योजनं विष्कम्भेण अष्टाचत्वारिंशदनिकः 'अडयालीसइकोडीए अडयालीसइविग्गहिए' इत्यादि सम्प्रदायगम्यं, 'वइरामयवद्दलसंठिए' इत्यादि महेन्द्रध्वजवत् वर्णनं निरवशेषं तावद्वक्तव्यं यावत् ‘सहस्सपत्तहत्थगा सव्वरयणामया जावपडिरूवा' इति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy