SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मूलं - ३६ २९१ विष्कम्भ्याभ्यां चत्वारि योजनानि बाहल्येन सर्वात्मना मणिमया अच्छा इत्यादि प्राग्वत्, तासांच मणिपीठिकानामुपरि एकैकप्रतिमाभावेन चतस्र जिनप्रतिमा जिनोत्सेघप्रमाणमात्राः, जिनोत्सेध उत्कर्षतः पञ्च धनुःशतानि जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि संभाव्यन्ते, 'पलियंकसंनिसन्नाउ' इति पर्यङकासनसन्निषण्णाः, स्तूपाभिमुख्यः संनिक्षिप्ताः, तता जगत्स्थितिस्वाभाव्येन सम्यग्निवेशितास्तिष्ठन्ति, तद्यथा - ऋषभा वर्द्धमाना चन्द्रानना वारिषेणा इति । 'तेसिण’मित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येकं २ मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका: षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्यतः 'सव्वमणिमइओ' इत्यादि प्राग्वत्, तासां च मणिपीठाकानामुपरि प्रत्येकं २ चैत्यवृक्षा अष्टौ योजनान्यूर्ध्वमुञ्चैस्त्वेनार्द्धयोजनमुद्वेधेन-उण्डत्वेन द्वे योजने उच्चैस्त्वेन स्कन्धः स एवार्ध योजनं विष्कम्भतया बहुमध्यदेशभागे विडिमा-ऊर्ध्व विनिर्गता शाखा सा ऊर्ध्वमुच्चैस्त्वेन षड् योजनानि अष्टौ योजनानि विष्कम्भेन सर्वाग्रेण सातिरेकेणाष्टौ योजनानि प्रज्ञप्तास्तेषां च चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तद्यथा-'वइरामयमूला रययसुपइट्ठियविडिमा' वज्राणि-वज्रमयानि मूलानि येषां ते वज्रमयमूला रजते सुप्रतिष्ठिता विडिमा - बहुमध्यदेशभागे ऊर्ध्व विनिर्गता शाखा येषां ते रजतसुप्रतिष्ठितविडिमास्ततः पूर्वपदेन कर्मधारयः समासः, 'रिड्डामयकंदे वेरुलियरुइलखंधे' रिष्ठमयोरिष्ठरत्नमयः कन्दो येषां ते रिष्ठमयकन्दाः । तथा वैडूर्यरलमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयः, 'सुजायवरजायरूवपढमगविसालसाला' सुजातं - मूलाद्रव्यशुद्धं वरं प्रधानं यत् जातरूपं तदात्मकाः प्रथमका - मूलभूता विशालाः शाखा येषां ते सुजातवरजातरूपप्रथमकविशालशालाः 'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्तवणिज्जपत्तबिंटा' इति नानामणिरत्नात्मिका विविधाः शाखाः प्रशाखा येषां ते तथा वैडूर्याणि - वैडूर्यमयानि पत्राणि येषां ते तथा तपनीयमयानि पत्रवृन्तानि येषां ते तथा ततः पूर्ववत् पदद्वय२ मीलनेन कर्मधारयः । जंबूणयरत्तमउयसुकुमालपवालपल्लववरंकुरधरा जाम्बूनदा- जाम्बूनदसुवर्णविशेषमया रक्ता-रक्तवर्णा मृदवः–मनोज्ञाः सुकुमाराः - सुकुमारस्पर्शा प्रवाला - ईषदुन्मीलितपत्रभावाः पल्लवाः -संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुराः - प्रथम- मुद्भिद्यमाना अङ्कुरास्तान् धरन्तीति जाम्बूनदरक्त-मृदुसुकुमारप्रवालपल्लवाङ्कुरधराः 'विचित्तमणिरयणसुरभिकुसुमफलभरेणनमियसाला' इति विचित्रमणिरत्नमयानि यानि सुरभीनि कुसुमानि फलानि च तेषां भरेण नमिताः शाला:- शाखा येषां ते तथा, तथा सती -शोभना छाया येषां ते सच्छायाः, सती-शोभन प्रभा - कान्तिर्येषां त सप्रभाः, अत एव सश्रीकाः, तथा सह उद्योतेन वर्तन्ते मणिरत्नानामुद्योतभावात् सोद्योताः, अधिकं नयनमनोनिर्वृतिकरा अमृतरसमरसानि फलानि येषां ते तथा, 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत् । एते च चैत्यवृक्षा अन्यैर्बहुभिस्तिलकलवकच्छत्रीपगशिरीषसप्तपर्णदधिपर्णलुब्धकधवलचन्दननीपकुटजनसतालतमालप्रियालप्रियङ्गुपारापतराजवृक्ष न्दिवृक्षैः सर्वतः समन्तात् संपरिक्षिप्ताः, ते च तिलका यावन्नन्दिवृक्षा मूलमन्तः कन्दमन्त इत्यादि सर्वमशोकपादवर्णनायामिव तावद्वक्तव्यं यावत् परिपूर्णं लतावर्णनं, 'तेसि ण'मित्यादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy