SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । इषोऽनिच्छायाम् ॥५।३।११२ ॥ [इषः] इष् पञ्चमी ङसि ।। [अनिच्छायाम्] न इच्छा = अनिच्छा, तस्याम् । [अन्वेषणा] 'इषच् गतौ' (११६८) इष्, अनुपूर्व० । अन्वेषणं = अन्वेषणा । [एषणा] एषणं = एषणा । [पिण्डैषणा] + पिण्डैषणं = पिण्डैषणा । सर्वत्र अनेन अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए। 'र-वर्णान्नो ण'० (२।३।६३) णत्वम् । 'आत्' (२।४।१८) आप्प्र० → आ । [इष्टिः] इषु । एषणं = इष्टिः । 'श्वादिभ्यः' (५।३।९२) क्तिप्र० → ति । 'तवर्गस्य श्चवर्ग' (१।३६०) त० → ट०। [प्राणैषणा] प्राणस्य एषणं = प्राणैषणा । [वित्तैषणा] वित्तस्य एषणं = वित्तैषणा । [परलोकैषणा] परलोकस्य एषणं = परलोकैषणा | बहुलाधिकारात् सर्वत्र अनेनैव अनप्र० । शेषं स्पष्टम् । 'ऐदौत् सन्ध्यक्षरेः' (१।२।१२) ऐ ॥छ। पर्यधेर्वा ॥५।३।११३ ॥ [पर्यधेः] परिश्च अधिश्च = पर्यधि, तस्मात् । [वा] वा प्रथमा सि । [पर्येषणा, परीष्टिः] पर्येषणं = पर्येषणा, एवम् - परीष्टिः । अनेन अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) । गु० ए । 'र-घुवर्णान्नो ण'० (२।३।६३) णत्वम् । 'आत्' (२।४।१८) आप्प्र० → आ । 'वादिभ्यः' (५।३।९२) क्तिप्र० → ति । 'तवर्गस्य श्चवर्ग'० (१।३।६०) तस्य टः । [अध्येषणा, अधीष्टिः] अध्येषणं = अध्येषणा, एवम् - अधीष्टिः । अनेन अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) । गु० ए । 'र-घृवर्णान्नो ण'० (२।३।६३) णत्वम् । 'आत्' (२।४।१८) आप्प्र० → आ । 'श्वादिभ्यः' (५।३।९२) क्तिप्र० →ति । 'तवर्गस्य श्चवर्ग'० (१।३।६०) तस्य टः ॥छ। क्रुत्संपदादिभ्यः क्विप् ॥५।३।११४ ॥ [क्रुत्संपदादिभ्यः ] क्रुध् च संपद् च = क्रुत्संपद्, क्रुत्संपदादिर्येषां ते = क्रुत्संपदादयः, तेभ्यः = क्रुत्संपदादिभ्यः । पञ्चमी भ्यस् । [क्विप्] क्विप् प्रथमा सि । 'दीर्घयाब्'० (१।४।४५) सिलुक् । ॐ श० म० न्या० - पिण्डस्य एषणा = पिण्डैषणा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy