SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः ॥ [ समाह्वयः प्राणिद्यूतम् ] सम्-आङ्पूर्व० 'डेंग् स्पर्द्धा - शब्दयो:' (९९४) ह्वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । समाहूयन्ते द्यूतकारा अत्रेति समाह्वयः प्राणिद्यूतम् । अनेन अल्प्र० ह्वयादेशश्च । [ आह्वयो नाम ] आहूयन्तेऽनेनेति आह्वयः । अनेन अल्प्र० ह्वयादेशश्च नाम । = सर्वत्र अनेन अल्प्र० (१।२।२४) अव् । [ न्यभ्युपवेः ] निश्च अभिश्च उपश्च विश्च = न्यभ्युपवि, तस्मात् । [वार्] वा प्रथमा सि । 'सो रुः' (२।१।७२ ) स०र० । [च] च प्रथमा सि । [ उत् ] उत् प्रथमा सि । 'दीर्घङ्याब्' ० ( १|४|४५) सिलुक् । अभेदनिर्देशः सर्वादेशार्थः । च इति वकारश्रुतेस्तस्यैवादेशः स्यात् न त्वाकारसहितस्येत्यर्थः । [ निहव: ] निह्वानं = निहवः । [ अभिहवः ] अभिह्वानं अभिहवः । [ उपहव: ] उपह्वानं = उपहवः । [विहवः ] विह्वानं विहवः । वाशब्दस्य उकारश्च । ‘नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्’ - - - Jain Education International न्यभ्युप-वेर्वाश्चोत् ॥५।३।४२ ॥ [ आङ : ] आङ् पञ्चमी ङसि । [ युद्धे ] युद्ध सप्तमी ङि । [ प्रह्वाय: ] प्रह्वानं = प्रह्वायः । ‘भावा-ऽकर्त्रीः' (५।३।१८) घञ्० अ । 'आत ऐः कृञ्ञौ' (४।३।५५) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । [ निवायः ] 'वांक् गति - गन्धनयो: ' (१०६३) वा । निवानं निवायः । 'भावा - ऽकर्त्री : ' (५।३।१८) घञ्प्र० अ । 'आत ऐः कृञ्ञ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय् ' (१।२।२३) आय् । २०९ = ह्वो हव इत्यनिपातनं किम् ? यङ्लुपि निपातनं मा भूत् तेन - [विजोहवः ] विपूर्व० 'ह्वेग स्पर्धा - शब्दयो:' (९९४) ह्वे । ‘आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । भृशं पुन: पुनर्वा विह्वयति । 'व्यञ्जनादेरेकस्वराद्' ० (३|४|९) यप्र० । 'बहुलं लुप्' (३|४|१४) यङ्लुप् । 'द्वित्वे ह्वः' (४।१।८७) वाशब्दस्य उकारः । द्विः । 'ग-होर्जः' (४|१|४०) ह० → ज० । 'आ-गुणावन्यादेः' (४|१|४८) गु० ओ । विजोहव: (विजोहु) । अनेन अल्प्र० । 'नामिनो' ० ( ४ | ३|१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । अन्यथा विहव इति स्यात् । 'प्रकृतिग्रहणे यङ्लुबन्तस्यापि ग्रहणम्' (न्या० सं० वक्ष० (१)/ सूत्र (१७)) इति न्यायेन यङ्लुबन्तस्यापि अनेन अलि हो हव इति कृते द्वित्वस्यापि निपाते विहव इति स्यादित्यर्थः ॥छ || आङो युद्धे ||५|३|४३ ॥ For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy