SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [द्रुहननी ] द्रुर्हन्यतेऽनेनेति द्रुहननी' । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन । 'अणजेयेकण्'० (२।४।२०) डी ॥छ। स्तम्बाद् घनश्च ॥५।३।३९ ॥ [स्तम्बात्] स्तम्ब पञ्चमी ङसि । [नः] घ्न प्रथमा सि । [च] च प्रथमा सि । [स्तम्बघ्नो दण्डः, स्तम्बघनो यष्टिः] स्तम्बो हन्यतेऽनेन = स्तम्बघ्नो दण्डः । एवम् - स्तम्बघनो यष्टिः । अनेन अल्प्र० घन-घनादेशश्च । स्त्रियां तु परत्वादनडेव [स्तम्बहननी यष्टिः] स्तम्बो हन्यतेऽनया = स्तम्बहननी यष्टिः । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन । 'अणजेयेकण्'० (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् ।। [स्तम्बघ्ना] स्तम्बो हन्यते । मतान्तरे 'नाम्युपा'० (५१५४) कप्र० → अ - घनादेशश्च निपातः । 'आत्' (२।४।१८) आप्प्र० → आ । [स्तम्बहेतिः] स्तम्बो हन्यतेऽनेनेति(अनयेति) स्तम्बहेतिः । मतान्तरे 'साति-हेति-यूति०' (५।३।९४) "हेति"निपात्यते । [स्तम्बघातः] स्तम्बहननं = स्तम्बघातः । 'भावा-ऽकोंः' (५।३।१८) घप्र० → अ । “णिति घात्' (४।३।१००) घात् । [स्तम्बनीषीका] स्तम्बो हन्यतेऽनया सा = स्तम्बघ्नीषीका । 'अचित्ते ट्क (५।१।८३) टक्प्र० → अ । 'गमहन-जन-खन'० (४।२।४४) अलुक् । 'हनो नो घ्नः' (२।१।११२) घनादेशः । 'अणजेयेकण'० (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । करणस्यापि कर्तृत्वविवक्षया सिद्धम् ॥छ।। परेर्घः ॥५३॥४०॥ [परेः] परि पञ्चमी ङसि । [घः] घ प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । [परिघोऽर्गला, पलिघः] परिहन्यतेऽनेनेति परिघोऽर्गला । अनेन अलप्र० - परिघनिपातश्च । एवम् - पलिघः । 'परे_-ऽङ्क-योगे' (२।३।१०३) लत्वम् ॥छ।। ह्वः समाह्वया-ऽऽह्वयौ द्यूत-नाम्नोः ॥५।३।४१ ॥ [हः ] हा पञ्चमी ङसि । 'लुगाऽऽतोऽनाप:' (२।१।१०७) आलुक् । [समाह्वयाऽऽह्वयौ ] समाहृयश्च आह्वयश्च - समाह्वयाऽऽह्वयौ । [द्यूतनाम्नोः] द्यूतं च नाम च = द्यूतनाम्नी, तयोः = द्यूतनाम्नोः । सप्तमी ओस् । करण इति निवृत्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy