SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [ प्रमयः ] प्रमाणं = प्रमयः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० अ । 'नामिनो गुणोऽक्डिति' ( ४ | ३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । ६ [निमेमेति] भृशं पुनः पुनर्वा निमिनोति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) यप्र० । 'बहुलं लुप्' ( ३।४।१४) यङ्लुप् । ‘सन्-यङश्च’ (४।१।३) "मि द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त्त० तिव् । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३ |१) गु० ए । [प्रमेमेति] भृशं पुनः पुनर्वा प्रमीनाति । 'व्यञ्जनादेरेकस्वरा० ' ( ३ | ४ |९) य० । 'बहुलं लुप् ' ( ३।४।१४) यङ्लुप् । 'सन्-यडश्च' (४।१।३) "मी" द्विः । 'ह्रस्वः' (४|१|३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त्त० तिव् । 'नामिनो गुणोऽविडति' (४।३।१) गु० ए । [निमितः] निमिनोति स्म । 'गत्यर्था - ऽकर्मक- पिव-भुजेः' (५।१।११) क्तप्र० । [प्रमीतः ] प्रमीनाति स्म । 'गत्यर्था ऽकर्मक- पिब-भुजेः' (५1१1११) क्तप्र० → त । [निमेमीयते] भृशं पुनः पुनर्वा निमिनोति । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' ( ३।४।९) यप्र० । 'सन्यङश्च' (४।१।३) “मि’द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'दीर्घश्च्वि-यङ्- यक्-क्येषु च ' ( ४१३ १०८ ) दीर्घः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । [प्रमेमीयते] भृशं पुनः पुनर्वा प्रमीनाति । 'व्यञ्जनादेरेकस्वराद्०' (३।४1९) य० । 'सन् यङश्च' ( ४।१।३) ‘“मी”द्विः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । ' आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शव् । [मेता] 'मींड्च् हिंसायाम्' ( १२४६ ) मी । मीयते । 'णक-तृचौ ' (५/११४८) तृच्प्र० तृ । [मेतुम्] मयनाय = मेतुम् । ‘क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प्र० । [ माता ] मीयते । 'णक-तृचौ' (५।१।४८) तृच्प्र० तृ । अत्र मतान्तरेण अनेन आ । [मातुम्] मयनाय । ‘क्रियायां क्रियार्थायां तुम्० ' ( ५ | ३|१३ ) तुम्प्र० । अत्र मतान्तरेण अनेन आ । । छ । । ली - लिनोर्वा ||४ |२|९ ॥ लीलिनौ तयोः लीलिनोः । [लीलिनो : ] लीङ् च लिनाश्च = [वा ] वा प्रथमा सि । [ विलाय, विलीय] 'लींच् श्लेषणे' (१२४८) ली, विपूर्व० । विलानं पूर्वम्, विलयनं पूर्वं वा । 'प्राक्काले ' (५।४।४७) क्त्वाप्र० त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । अनेन वा आ० । [ विलाता, विलेता ] ली । श्वस्तनी ता । [ विलास्यते, विलेष्यते] 'लींच् श्लेषणे' (१२४८) ली, विपूर्व० । भविष्यन्ती स्यते । P. विलीयते विलिनातीति वा । 'णक-तृची' (५।१।४८) तृच्प्र० । 'नामिनो गुणोऽक्डिति' ( ४।३।१) गु० ए । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy