SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ।। ____मिग्-मीगोऽखलचलि ।।४।२।८।। [मिग्मीगः] मिग् च मीग् च = मिग्मीग्, तस्य । [अखलचलि] खल् च अच् च अल् च = खलचल, न खलचल = अखलचल, तस्मिन् । [निमाय] 'डुमिंग्ट प्रक्षेपणे' (१२८९) मि, निपूर्व० । निमानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । [निमाता] निमिनोतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । अनेन इ० → आ० । प्रथमा सि । 'ऋदुशनस्पुरुदंशो-ऽनेहसश्च सेहः' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादे:' (२११११४) अन्त्यस्वरादिलोपः । [निमातुम्] निमि(मा)नाय = निमातुम् । ‘क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प्र० । [निमातव्यम्] निमीयते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । [न्यमासीत्] नि 'डुमिंग्ट प्रक्षेपणे' (१२८९) मि । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । ‘अड् धातोरादि०' (४।४।२९) अट् । अनेन सर्वत्र इ० → आ० । [प्रमाय] 'मींग्श् हिंसायाम्' (१५१२) मी, प्रपूर्व० । प्रमाणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप' (३।२।१५४) यप् । [प्रमाता] प्रमीनातीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । [प्रमातुम्] प्रमाणाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । अनेन सर्वत्र ई० → आ० । [प्रमातव्यम्] प्रमीयते । ‘तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । अनेन ई० → आ० । [प्रामासीत्] प्र ‘मींग्श् हिंसायाम्' (१५१२) मी । अद्यतनी दि → त् । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । ‘अड् धातोरादि०' (४।४।२९) अट् । अनेन ई० → आ० । ईषन्निमयः] ईषदनायासेन निमीयते । 'दुः-स्वीषतः कृच्छा०' (५।३।१३९) खलप्र० । [दुष्प्रमयः दुःखेनाऽनायासेन प्रमीयते । 'दुः-स्वीषतः कृच्छ्रा०' (५३१३९) खलप्र० । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [मयः]5 मिनोतीति मयः । 'अच्' (५।१।४९) अच्प्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [आमयः] आमिनोतीति आमयः । 'अच्' (५।१।४९) अच्प्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [निमयः] निमानं = निमयः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । P. दुःखेन-महता कष्टेन प्रमीयते । P.5 मिनोतीति-मीनातीति । P. + आमिनोतीति - आमीनातीति । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy