________________
६६
नवस्मरणादिसङ्ग्रहे
कृतं मयाऽमुत्र हितं न चेह, लोकेऽपि लोकेश ! खुखं न मेऽभूत् ।
अस्मादृशां केवलमेव जन्म,
जिनेश ! जज्ञे भवपूरणाय || ६ || मन्ये मनो यन्न मनोज्ञवृत्तं, स्वदास्यपीयूषमयूख लाभात् । द्रुतं महानन्दरसं कठोर
मस्मादृशां देव ! तदश्मतोऽपि ॥ ७ ॥
त्वत्तः सुदुष्प्रापमिदं मयाऽऽप्तं, रत्नत्रयं भूरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत्,
कस्याग्रतो नायक ! पूत्करोमि ? ॥ ८ ॥
वैराग्यरङ्गः परवञ्चनाय,
धर्मोपदेशो जनरञ्जनाय । वादाय विद्याध्ययनं च मेऽभूत्,
किय ब्रुवे हास्यकरं स्वमीश ! ? ॥ ९ ॥ परापवादेन मुर्ख सदोषं,
नेत्रं परस्त्रीजनवीक्षणेन ।
चेतः परापायविचिन्तनेन,
कृतं भविष्यामि कथं विभोऽहम् ॥ १० ॥ विडम्बितं यत् स्मरघस्मरार्ति
दशावशात् स्वं विषयान्धलेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org