________________
रत्नाकरपञ्चविंशिका |
रत्नाकरपञ्चविंशिका |
श्रेयः श्रियां मङ्गलकेलिसद्म !, नरेन्द्रदेवेन्द्रनाङ्घ्रिपद्म ! | सर्वज्ञ ! सर्वातिशयप्रधान !, चिरं जय ज्ञानकलानिधान ! ॥ १ ॥
जगत्रयाधार ! कृपावतार !, दुर्वारसंसारविकारवैद्य ! | श्रीवीतराग ! त्वयि मुग्धभावाद्,
विज्ञ ! प्रभो ! विज्ञपयामि किञ्चित् ॥ २ ॥
किं बाललीलाकलितो न बालः, पित्रोः पुरो जल्पति निर्विकल्पः ? । तथा यथार्थ कथयामि नाथ !, निजाशयं सानुशयस्तचाऽग्रे ॥ ३ ॥
दत्तं न दानं परिशीलितं च,
न शालि शीलं न तपोऽभितप्तम् । शुभो न भावोऽप्यभवद् भवेऽस्मिन्, विभो ! मया भ्रान्तमहो ! मुधैव ॥ ४ ॥
दग्धोऽग्निना क्रोधमयेन दष्टो,
दुष्टेन लोभाख्यमहोरगेण ।
ग्रस्तोऽभिमानाजगरेण माया
जालेन बद्धोऽस्मि कथं भजे त्वाम् ? ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
६५
www.jainelibrary.org