________________
नवस्मरणादिसले [मूलमन्त्रोद्धारः- हाँ हाँ हूँ हूँ हूँ हूँ हाँ हूःअसि आउ सा सम्यग्ज्ञानदर्शनचारित्रेभ्यो नमः।] जम्बूवृक्षधरो द्वीपः, क्षारोदधिसमावृतः। अहंदाद्यष्टकैरष्टकाष्ठाधिष्टैरलंकृतः ॥ ११ ॥ तन्मध्ये सङ्गतो मेरुः, कूटलरलंकृतः। उच्चरुच्चैस्तरस्तारः, तारामण्डलमंडितः ॥ १२॥ तस्योपरि सकारान्तं, बीजमध्यास्य सर्वगम् । नमामि बिम्बमार्हन्त्यं, ललाटस्थं निरंजनम् ॥ १३ ॥ अक्षयं निर्मलं शान्तं, बहुलं जाड्यतोज्झितम् । निरीहं निरहंकारं, सारं सारतरं धनम् ॥ १४ ॥ अनुद्धतं शुभं स्फीतं, सात्विकं राजसं मतम् । तामसं चिरसंबुद्धं, तैजसं शर्वरीसमम् ॥ १५॥ साकारं च निराकारं, सरसं विरसं परम् । परापरं परातीतं, परम्पर-परापरम् ॥ १६ ॥ सकलं निष्कलं तुष्टं, निवृतं भ्रान्तिवर्जितम् । निरंजनं निराकरं, निर्लेपं वीतसंश्रयम् ॥ १७॥ ईश्वरं ब्रह्मसंबुद्धं बुद्धं सिद्धं मतं गुरुम् । ज्योतिरूपं महादेवं, लोकालोकप्रकाशकम् ॥ १८ ॥ अर्हदाख्यस्तु वर्णान्तः, सरेको बिन्दुमण्डितः । तुर्यस्वरकलायुक्तो, बहुधा नादमालितः ॥ १९ ॥ एकवर्ण द्विवर्ण च, त्रिवर्ण तुर्यवर्णकम् । पञ्चवर्ण महावर्ण, सपरं च परापरम् ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org