________________
३०
ममस्मरणादिसहे. यद्यस्ति नाथ ! भवदनिसरोरुहाणां,
भक्तेः फलं किमपि सन्ततिसञ्चितायाः। तन्मे त्वदेकशरणस्य शरण्य ! भूयाः,
स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥४२॥ इत्थं समाहितधियो विधिवजिनेन्द्र !,
सान्द्रोल्लसत्पुलकक किताङ्गाभागाः। स्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्षा,
ये संस्तवं तव विभो ! रचयन्ति भव्या ॥४॥ जननयनकुमुदचन्द्रप्रभास्वराः स्वर्गसम्पदो भुक्त्वा ।
ते विगलितमलनिचया, अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ युग्मम् ॥
नवमं बृहच्छान्तिस्मरणम् । भो भो भव्या ! शृणुत वचनं प्रस्तुतं सर्वमेतद्, __ ये यात्रायां त्रिभुवनगुरोराहता भक्तिभाजः । तेषां शान्तिर्भवतु भवतामहदादिप्रभावा- दारोग्य-श्रीधृति-मतिकरी क्लेशविध्वंसहेतुः ॥१॥
भो भो भव्यलोकाः ! इह हि भरतैरावतविदेहसम्भवानां समस्ततीर्थकृतां जन्मन्यासनप्रकम्पानन्तरमवधिना विज्ञाय सौधर्माधिपतिः सुघोषाघण्टाचालनानन्तरं सकालसुरासुरेन्द्रः सह समागत्य, सविनयमहद्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org