________________
अष्टमं कल्याणमन्दिर स्मरणम् ।
एतन्निवेदयति देव ! जगन्नयाय, मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥ २५ ॥ उद्योतितेषु भवता भुवनेषु नाथ !, तारान्वितो विधुरयं विहताधिकारः । मुक्ताकलापकलितोच्छ्रवसितातपत्र
व्याजात् त्रिधा धृततनुर्ध्रुवमभ्युपेतः ॥ २६ ॥ स्वेन प्रपूरितजगन्नयपिण्डितेन, कान्ति-प्रताप - यशसामिव सञ्चयेन | माणिक्य- हेम-रजतप्रविनिर्मितेन,
सालत्रयेण भगवन्नभितो विभासि ॥ २७ ॥ दिव्यस्रजो जिन ! नमत्रिदशाधिपाना
मुत्सृज्य रनरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदि वा परत्र, त्वत्सङ्गमे सुमनसो न रमन्त एव ॥ २८ ॥ त्वं नाथ ! जन्मजलधेर्विपरामुखोऽपि, यत्तारयस्यसुमतो निजपृष्ठलग्नान् । युक्तं हि पार्थिवनिपस्य सतस्तबैव,
चित्रं विभो ! यदसि कर्मविपाकशून्यः ॥ २९ ॥ विश्वेश्वरोऽपि जनपालक ! दुर्गतस्त्वं, किं वाऽक्षरप्रकृतिरप्यलिपिस्त्वमीश ! | अज्ञानवत्यपि सदैव कथश्चिदेव,
ज्ञानं त्वयि स्फुरति विश्वविकाशहेतुः ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
૨૭
www.jainelibrary.org