________________
२६
नवस्मरणादिसङ्ग्रहे
चित्रं विभो ! कथमवाङ्मुखवृन्तमेथ, विष्वक् पतत्यविरला सुरपुष्पवृष्टिः १ । त्वद्गोचरे सुमनसां यदि वा मुनीश !. गच्छन्ति नूनमध एव हि बन्धनानि ॥ २० ॥ स्थाने गभीर हृदयोदधिसम्भवायाः,
पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परमसम्मदसङ्गभाजो,
भव्या व्रजन्ति तरसाऽप्यजरामरत्वम् ॥ २१ ॥ स्वामिन् । सुदूरमवनम्य समुत्पतन्तो, मन्ये वदन्ति शुचयः सुरवामरौघाः । येsस्मै नतिं विद्यते मुनिपुङ्गवाय,
ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ २२ ॥ श्यामं गभीरगिरमुज्ज्वलहेमरत्न
सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् । आलोकयन्ति रभसेन नदन्तमुचै
चामीकराद्रिशिरसीव नवाम्बुवाहम् ॥ २३ ॥
उद्गच्छता तव शितिद्युतिमण्डलेन, लुसच्छदच्छविरशोकतरुर्बभूव ।
सान्निध्यतोऽपि यदि वा तव वीतराग !, नीरागतां व्रजति को न सचेतनोऽपि १ ॥ २४ ॥ भो भोः ! प्रमादमवधूय भजध्वमेन मागत्य निर्वृतिपुरिं प्रति सार्थवाहम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org