________________
अष्टम कल्याणमन्दिरस्मरणम् । धृष्टोऽपि कौशिकशिशुर्यदि चा दिवान्धो,
रूपं प्ररूपयति किं किल धर्मरश्मेः १ ॥३॥ मोहक्षयादनुभवन्नपि नाथ ! मर्यो,
नूनं गुणान् गणयितुं न तव क्षमेत । कल्पान्तवान्तपयसः प्रकटोऽपि यस्मा
न्मीयेत केन जलधेर्नेनु रत्नराशिः ॥४॥ अभ्युद्यतोऽस्मि तव नाथ ! जडाशयोऽपि,
कतुं स्तवं लसदसङ्ख्यगुणाकरस्य । बालोऽपि किं न निजबाहयुगं वितत्य,
विस्तीर्णतां कथयति स्वधियाऽम्पुराशेः॥५॥ ये योगिनामपि न यान्ति गुणास्तवेश!,
वक्तुं कथं भवति तेषु ममावकाशः । जाता तदेवमसमीक्षितकारितेयं,
जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥६॥ आस्तामचिन्त्यमहिमा जिन ! संस्तवस्ते,
नामाऽपि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनान् निदाधे,
प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥७॥ हृदर्तिनि त्वयि विभो ! शिथिलीभवन्ति,
जन्तोः क्षणेन निविडा अपि कर्मबन्धाः। सद्यो भुजङ्गममपा इव मध्यभाग. मभ्यागते बनशिखण्डिनि चन्दनस्य ॥ ८॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org