________________
मवस्मरणादिसङ्कहे स्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः,
सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ मत्तदिपेन्द्र-मृगराज-दवानला-हि
सङ्ग्राम-वारिधि-महोदर-बन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव, - यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां,
भत्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजलं, तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४४ ॥
अष्टमं कल्याणमन्दिरस्तोत्रम् । कल्याणमन्दिरमुदारमवद्यभेदि,
भीताभयप्रदमनिन्दितमधिपद्मम् । संसारसागरनिमजदशेषजन्तु
पोतायमानमभिनम्य जिनेश्वरस्य ॥१॥ यस्य स्वयं सुरगुरुगरिमाम्धुराशेः,
स्तोत्रं सुविस्तृतमतिर्न विभुविधातुम् । तीर्थेश्वरस्य कमठस्मयधूमकेतो.
स्तस्याहमेष किल संस्तवनं करिष्ये ॥२॥ युग्मम् सामान्यतोऽपि तव वर्णयितुं स्वरूपमस्मादृशाः कथमधीश! भवन्त्यधीशाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org