________________
सप्तमं भक्तामरस्मरणम् ।
वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान् ,
कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्धया ? । कल्पान्तकालपवनोद्धतनकचक्रं,
को वा तरीतुमलमम्बुनिधि भुजाभ्याम् ? ॥४॥ सोऽहं तथापि तव भक्तिवशान्मुनीश !,
कर्तुं स्तवं विंगतशक्तिरपि प्रवृत्तः। प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्र,
नाभ्येति किं निजशिशोः परिपालनार्थम् ?॥4॥ अल्पश्रुतं श्रुतवतां परिहासधाम,
त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मधौ मधुरं विरौति,
तचारुचूतकलिकानिकरैकहेतुः ॥६॥ त्वत्संस्तवेन भवसन्ततिसन्निबद्धं,
पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु,
सूर्याशुभिन्नमिव शार्वरमन्धकारम् ॥ ७ ॥ मत्वेति नाथ ! तव संस्तवनं मयेद__ मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु, मुक्ताफलद्युतिमुपैति नन्दविन्दुः॥८॥ आस्तां तव स्तवनमस्तसमस्तदोष, त्वत्सङ्कथाऽपि जगतां दुरितानि हन्ति ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org