SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६५ सूत्रप्राभतं । स्य पितृप्रियकणस्य तुषस्त्वङ्मानं न गृह्णाति हस्तयोरित्युत्सर्गव्याख्यानं प्रमाणमेव किन्तु क्वचित्कालानुसारेण सूरिद्रव्यमुपाहरेत् । गच्छपुस्तकवृद्धयर्थमयाचितमथाल्पकं इतीन्द्रनन्दिभगवतोक्तं त्वपवादव्याख्यानं । तत्रापि स्वहस्तेन न स्पृश्यं किन्तु श्रावकादिहस्तेन स्थापनीयं । जइ लेइ अप्पबयं यदि लाति गृह्णात्यल्पं बहुकं वा निजोदरपोषणबुद्धया च । तत्तो पुण जाइ णिग्गोदं ततः पुनर्याति निगोदं प्रशंसनीयगतिं न गच्छतीत्यर्थः । जस्स परिग्गहगहणं अप्पं बहुयं च हवइ लिंगस्स । सो गरहिउ जिणवयणे परिगहरहिओ निरायारो ॥१९॥ यस्य परिग्रहग्रहणं अल्पं बहुकं च भवति लिंगस्य । स गर्हणीयः जिनवचने परिग्रहरहितो निरागारः ॥ जस्स परिग्गहगहणं यस्य मुनेः श्वेताम्बरादेः परिग्रहग्रहणं शासने भवति । अप्पं बहुयं च हवइ लिंगस्स अल्पं अर्द्धफालिकादिकं बहुयं च-चतुर्विंशत्यावरणादिकं भवति लिंगस्य कपटकपटसितपटादेर्वेषे । सो गरहिउ जिणवयणे तल्लिगं स वेषो निन्दितोऽप्रशंसनीयो भवति, क, जिणवयणे-श्रीवर्धमानगौतमादिप्रतिपादितसिद्धान्तशास्त्रे । तथा चोक्तं समन्तभद्रेण गुरुणा त्वमसि सुरासुरमहितो ग्रन्थिकसत्वाशयप्रणामामहितः। लोकत्रयपरमहितोऽनावरणज्योतिरुज्वलधामहितः ॥१॥ अत्र प्रन्थिकसत्वाः सितपटाः प्रभाचन्द्रेण क्रियाकलापटीकायां व्याख्याताः, सितपटाभासास्तु लोकायतिका अतीव निन्द्या अशौचव्यवहारोच्छिष्टान्नभोजित्वात् । परिगहरहिओ निरायारो परिग्रहरहितो हि मुनिर्निरागारोऽनगारो यतिर्भवति यस्मात्कारणादिति शेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy