SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ षट्याभूते मात्मतत्वं श्रद्धत्त यूयं रोचत यूयं, त्रिविधेन मनोवचनकायप्रकारेण । जेण य लहेह मोक्खं येन चात्मतत्वेन लभेध्वं मोक्षं सर्वकर्मक्षयलक्षणं परमनिर्वाणं प्राप्नुत यूयं । अत्रापि चकार उक्तसमुच्चयार्थः तेन स्वर्गसौख्यं यथासंभवं सर्वार्थसिद्धिपर्यन्तं पूर्व लब्ध्वा पश्चान्मोक्षं लभेवं । तं जाणिज्जह पयत्तेण तमात्मानं न केवलं श्रद्धत्त अपि तु जानीत विदांकुरुत चेति कथं, प्रयत्नेन सावधानतया सर्वतात्पर्येणेत्यर्थः । वालग्गकोडिमत्तं परिगहगहणं ण होइ साहूणं । भुंजेइ पाणिपत्ते दिण्णण्णं इक्कठाणम्मि ॥ १७ ॥ बालाग्रकोटिमात्रं परिग्रहग्रहणं न भवति साधूनाम् । भुंजीत पाणिपात्रे दत्तमन्येन एकस्थाने ॥ वालग्गकोडिमत्तं बालस्य रोम्णोऽग्रकोटिमात्रं अग्राममात्रं अतीवाल्पमपि । परिगहगहणं ण होइ साहूणं परिग्रहस्य ग्रहणं स्वीकारो न भवति साधूनां निरम्बरयतीनां । भुजेइ पाणिपत्ते भुञ्जीत भोजनं कुर्वीत कुर्यात्पाणिपात्रे निजकरपुटे । दिण्णण्णं इक्कठाणम्मि श्रावकेण दत्तं न त्वतिना दत्तं भुंजीत, प्रासुकभोजनं किल सर्वत्र गृह्यते इति जैनाभासा ब्रुवन्ति तदनेन विशेषव्याख्यानेन प्नत्युक्तं भवतीति भावितव्यं । इक्कठाणम्मि-उद्भो भूत्वा एकवारं भुंजीतेति, यो बहुवारं भुंक्ते स वन्दनीयो न भवतीति भावार्थः। जहजायरूवसरिसो तिलतुसमेत्तं न गिहदि हत्थेसु । जइ लेइ अप्पबहुयं तत्तो पुण जाइ णिग्गोदं ॥ १८ ॥ यथाजातरूपसदृशः तिलतुषमात्रं न गृह्णाति हस्तयोः । यदि लाति अल्पबहुकं ततः पुनः याति निगोदम् ॥ जहजाइरूवस रिसो यथाजातरूपः सर्वज्ञवीतरागस्तस्य रूपस. दृशो नग्नशरीरः । तिलतुसमेत्तं ण गिहदि हत्थेसु तिल Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy