SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ षट्प्राभूतेयः कोपि धर्मशीलः संयमतपोनियमयोगगुणधारी । तस्य च दोषान् कथयन्तः भमा भनत्वं ददति ॥ जो को वि धम्मसीलो यः कोऽपि धर्मशीलो धर्मे आत्मस्वरूपे उत्तमक्षमादिदशलक्षणे च धर्मे, पंचप्रकारे त्रयोदशप्रकारे चारित्रे च प्राणिनां रक्षणलक्षणे वा धर्मे शीलमभ्यासः समाधिरभ्यासो यस्य स धर्मशीलः । उक्तं च धम्मो वत्थुसहावो खमादिभावो य दसविहो धम्मो। चारित्तं खलु धम्मो जीवाणं रक्खणो धम्मो ॥ १॥ संजमतवणियमजोयगुणधारी तथा यः कोऽपि संयमतपोनियमयोगगुणधारी वर्तते। संयमश्च षडिन्द्रियषट्प्रकारप्राणिप्राणरक्षणलक्षणः। तपश्च द्वादशप्रकारं । नियमश्च नियतकालव्रतधारणं । उक्तं च नियमो यमश्च विहितौ द्वेधा भोगोपभोगसंहारात् । नियमः परिमितकालो यावजीवं यमो भ्रियते ॥१॥ योगश्च वर्षादिकालस्थितिः। अथवाऽऽत्मध्यानं योग उच्यते। उक्तंच वीरनन्दिशिष्येण पद्मनन्दिना साम्यं स्वास्थ्यं समाधिश्च योगश्चेतोनिरोधनं । शुद्धोपयोग इत्येते भवन्त्येकार्थवाचकाः। ॥१॥ गुणाश्चतुरशीतिलक्षसंख्याः । के ते चतुरशांतिलक्षगुणा इति चेदुच्यन्ते---- हिंसाऽनृतस्तेयमैथुनपरिग्रहक्रोधमानमायालोभजुगुप्साभयारतिरतित्यागा इतित्रयोदश दोषाः । मनोवचनकायदुष्टत्वमिति षोडश । मिथ्यात्वं प्रमादः पिशुनत्वं अज्ञानं इन्द्रियाणामनिग्रह एतैः पंचभिर्मेलिता एकविंशतिर्दोषा भवन्ति तेषां त्यागा एकविंशतिर्गुणा भवन्ति । १ धर्मो वस्तुस्वभावः क्षमादिभावश्च दशविधो धर्मः । चारित्रं खलु धर्मः जीवानां रक्षणं धर्मः ॥॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy