SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ दर्शनप्राभतं । सम्यक्त्वसलिलप्रवाहः नित्यं हृदये प्रवर्तते यस्य । कर्म वालुकावरणं बद्धमपि नश्यति तस्य ॥ सम्मत्तसलिलपवहो सम्यक्त्वसलिलप्रवाहः सम्यक्त्वमेव सलिलं निर्मलशीतलसुगन्धसुस्वादुपानीयं संसारसन्तापनिवारकत्वात् पापमलकलंकप्रक्षालकत्वाच्च सम्यक्त्वसलिलं तस्य प्रवहः प्रवाहः पूरः। णिच्चं हियए पवट्टए जस्स नित्यं हृदये प्रवर्तते यस्य जलपूरवद्वहतीत्यर्थः । कम्मं वालुयवरणं हिंसादिपंचपातकपापं वालुकापाली । बंधुचिय बद्धमपि । नासए तस्स नश्यति तस्य । सम्यग्दृष्टेर्लग्नमपि पापं बन्धं न याति कौरघटस्थितं रज इव न बन्धं याति । परदेवनमस्कारोऽपि पापमायाति । उक्तं च---- एकवारं नमस्कारे परदेवे कृते सति । परदारेषु लक्षेषु तस्मात्पापं चतुर्गुणं ॥१॥ जे देसणेसु भहा णाणे भहा चरित्तमहा य । एदे भहविभहा सेसं पि जगं विणासंति ॥८॥ ये दर्शनेषु भ्रष्टाः ज्ञाने भ्रष्टाः चरित्रभ्रष्टाश्च । एते भ्रष्टविभ्रष्टाः शेषमपि जनं विनाशयन्ति ॥ जे दंसणेसु भहा ये पुरुषा दर्शनेषु सम्यक्त्वेषु द्विविधत्रिविधदशविधेषु भ्रष्टाः पतिताः अथवा दर्शने सुष्ठु भ्रष्टाः । तथा णाणे भट्ठा अष्टविधाचारज्ञानादपि भ्रष्टाः । चरित्तमहा य त्रयोदशप्रकाराचारित्राभ्रष्टाः । एदे भविभहा एते भ्रष्टा विशेषेण भ्रष्टास्त्रिभ्रष्टत्वात् । सेसं पि जणं विणासंति शेषमपि जनमभ्रष्टमपि लोकं विणासन्तिविनाशयन्ति भ्रष्टं विकुर्वन्ति । जो को विधम्मसीलो संजमतवणियमजोयगुणधारी। तस्स य दोस कहन्ता भग्गा भग्गत्तणं दिति ॥९॥ १ जे के वि. घ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy