SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ षट्प्राभते भवति ! शरत्कालसरोवरसदृशमाकाशं निर्मलं भवति । दिशः सर्वा अपि तिमिरकां धूम्रतां त्यजन्ति तमो मुञ्चन्ति शलभा अपि दिशो ना. च्छादयन्ति धूलिर्नोड्डीयते । ज्योतिष्कान् व्यन्तरान् कल्पवासिदेवान् भवनवासिन आह्वयन्ति महापूजार्थ त्वरितमागच्छन्तु भवन्त इति । अरसहस्रं रत्नमयं रवितेजस्तिरस्कारकं धर्मचक्रं अग्रेडने गगने निराधारं गच्छति । अष्ट मंगलानि भवन्ति, तानि कानि ? छत्र-ध्वज-दर्पणकलश-चामर-भंगार-ताल-सुप्रतीक इत्यष्ट मंगलानि चतुर्दशोऽतिशयः। एते चतुर्दशातिशया देवोपनीता भवन्ति । तथाष्टप्रातिहार्याणि भवन्ति, कानि तानीत्याह ?-- अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥१॥ गइ इंदियं च काए जोए वेए कसाय णाणे य । संजम दंसण लेसा भविया सम्मत्त सण्णि आहारे॥३३॥ गतौ इन्द्रिये च काये योगे वेदे कषाये ज्ञाने च। संयमे दर्शने लेश्यायां भव्यत्वे सम्यक्त्वे संज्ञिनि आहारे ॥ गइ नारकतिर्यमनुष्यदेवगतीनां मध्येऽर्हतो मनुष्युगतिः। इंदियं स्पर्शन सनघ्राणचक्षुःश्रोत्रपंचेन्द्रियजातीनां मध्येऽर्हन् पंचेन्द्रियजातिः । पृथिव्यतेजोवायुवनस्पतित्रसकायानां मध्येऽर्हन् त्रसकायः । जोए सत्यमनोयोगासत्यमनोयोगोभयमनोयोगानुभयमनोयोगानामर्हतः सत्यानुभयमनोयोगौ, सत्यवचनयोगासत्यवचनयोगोभयवचनयोगानुभयवचनयोगानां मध्येऽर्हतः सत्यानुभयवचनयोगौ, औदारिककाययोगौदारिकमिश्रकाययोगवैक्रियिककाययोगवैक्रियिकमिश्रकाययोगाहारककाययोगाहारकमिश्रकाययोगकार्मणकाययोगानां मध्येऽर्हतः सप्त (त्रि) योगाः, सत्यमनोयोगोऽनुभयमनोयोगः सत्यवचनयोगोऽनुभयवचनयोग औदारिककाययोग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy