SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ बोधप्राभतं । क्षीरगौररुधिरमांसत्वं । समचतुरस्रसंस्थानं । वर्षभनाराचसंहननं । सुरूपता । सुगन्धता। सुलक्षणत्वं । अनन्तवीर्य । प्रियहितवादित्वं चेति दशातिशया जन्मतोऽपि स्वामिनः शरीरस्य । गव्यूतिशतचतुष्टयसुभिक्षता । गगनगमनं । अप्राणिवधः। कवलाहारो न भवति भोजनं नास्ति । उपसर्गो न भवति, केवलिनामुपसर्ग भुक्तिं च ये कथयन्ति ते प्रत्युक्ता भवन्ति । चतुर्मुखत्वं । सर्वविद्यानां परमेश्वरत्वं । अच्छायत्वं-दर्पणे मुखप्रतिबिंबं न भवति शरीरच्छाया च न भवति । चक्षुषि मेषोन्भेषो न भवति। नखानां केशानां च वृद्धिन भवति, एते दशातिशया घातिकर्मक्षयजा भवन्ति । सर्वार्धमागधीया भाषा भवति, कोऽर्थः अर्ध भगवद्भाषाया मगधदेशभाषात्मकं, अर्ध च सर्वभाषात्मकं, कथमेवं देवोपनीतत्वं तदतिशयस्येति चेत् ? मगधदेवसन्निधाने तथापरिणतया भाषया संस्कृतभाषया प्रवर्तते । सर्वजनता विषया मैत्री भवति सर्वे हि जनसमूहा मागधप्रीतिंकरदेवातिशयवशान्मागधभाषया भाषन्तेऽन्योन्यं मित्रतया च वर्तन्ते इति द्वातिशयो । सर्वप्नां फलग्लुंछौः प्रवालाः पुष्पाणि च भूमौ तरवो भवन्ति । आदर्शतलसदृशी भूमिमनोहरा रत्नमयी भवति । वायुः पृष्टत आगच्छति शीतो मन्दः सुरभिश्च । सर्वलोकानां परमानन्दो भवति । एकं योजनमग्रेऽग्रे वायवो भूमि सम्मार्जयन्ति स्वयं सुगन्धमिश्रा धूलिकण्टकतृणकीटकान् कर्करान् पाषाणांश्च प्रमार्जन्ति । स्तनित. कुमारा गन्धोदकं वर्षन्ति । पादाधोऽम्बुजमेकं, अग्रतः सप्तकमलानि, पृष्ठतश्च सप्तपद्मानि योजनैकप्रमाणानि प्रत्येकं सहस्रपत्राणि पद्मरागमणिकेसराणि अर्धयोजनकानि भवन्ति । सर्वसस्यनिष्पत्तियुता भूमि १ गुच्छा इति पाठान्तरं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy